________________
द्वादशारनयचक्रे
ततोऽन्यस्याभावमात्रं सामान्यतो व्यतिरेचनीयं लिङ्गेनेति, अत्र ब्रूमः, न दृष्टवल्लिङ्गं लिङ्गिनं यदि प्रकाशयेत् सर्वत्र लिङ्गिन्यदर्शनात्तल्लिङ्गं लिङ्गमेव न स्यात्, अगतिर्वा सर्वथा भवेत्, लिङ्गमपदेशः कारणं निमित्तमित्यादि, तत्र विशेषस्यैव वाच्यत्वादनु - मेयत्वाच्च सामान्यस्यासत्त्वादेव पूर्वमदृष्टत्वे विशेषस्यैव दृष्टस्य कल्पितसामान्योपसर्जनद्वारेण वाच्यत्वम्, शब्दस्यापि तथैव वाचकत्वम्, तथाऽनुमानेऽपि भेदाविवक्षापादितैकत्वसामान्यलिङ्गभावा
पनधर्मस्तथाभावितैकत्ववाच्यलिङ्गयभेदात्तद्भावदर्शनात् एव गम्यो
३१८
गमकश्च ।
यदि तु न तथा प्रकाशयतीतीष्टं किन्त्वन्यापोहेन, ततो नैव प्रकाशकं स्यात् सर्वस्यादर्शनात् प्रतिद्रव्यमपोह्यस्यादर्शनात् किं तदर्थादन्यददृष्टमेव भवेद्यतश्च बुद्धेर्व्यावृत्तिरिष्टा ? न हि स वृक्षोऽग्निर्वा भवति ततोऽन्यो वा, अदृष्टत्वाद्वन्ध्यापुत्रवत्, दृष्ट एवायमत्र भवति न भवत्यन्यो वा ततः, न च तेन दृष्टेनातुल्यमतच्छब्दमतद्रूपमवृक्षोsनग्यादि बा, तथा तथाऽदृष्टं हि प्रतिपत्तुमशक्यम्, अप्रतिपत्तेश्वान्यस्याभावात् कस्य कथं वाऽपोहः स्यात् ?
अपितृत्ववत् स्यादिति चेत् यथा पितुरन्ये सर्वे पुरुषा अनाश्रितभेदरूपा अन्यत्वव्यावृत्तिबुद्धिमात्रेण निरवयवा एव प्रतीयन्ते तथाऽवृक्षाज्वलना वृक्षज्वलनपर्युदासेनानन्तभेदा अपि व्यावृत्तिबुद्धिमात्रेण निरवयवाः प्रतीयेरन् को दोष इति चेद्रुमः, सर्वस्यादर्शनात् सा हि पितरि अस्मद्दर्शनेन दृष्टे तत्पर्युदासेनान्यस्मिन् पितृविपरीतबुद्धेर्गृहीतेरेष पिता देवदत्तो नेमे वसुरातादय
-