SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१० द्वादशारनयचक्रे न तत्र तत्राग्निरिति, तस्मादग्नेरन्यथा संयोगित्वम्, अन्यथा धूमस्य, हि सर्वत्राग्नौ धूमो दृष्टः, मा भूदेष दोष इति देशसाध्यतेष्यते तस्याश्च सिद्धसाधनन्यायविरोधदोष इति । अग्निसाधनवदेव हि धूमसाधने व्यभिचारः धूमो ह्यग्निं बिना बासगृहेऽपनीताग्निकेदृष्टः, अरणिनिर्मन्थने वा भूतानिके, सम्भाव्यते तु धूमदर्शनादग्निरत्रेति, अग्निदर्शनाद्वा धूमोऽत्रेति, अग्ने रन्धनगृहधूमवत्, वैधर्म्येण निर्जलवत्, धूमोऽग्नेरन्यत्र न सम्भवति, सम्भवार्थत्वेनेतरवत्, शक्यत एव प्रतीतिरपि तथा, अथ बालिशरुतवत्तु अलं क्रीडितेन । वस्तुतः प्रतिपत्तितश्च प्रतिपादितमपि किमर्थं न प्रतिपद्यसे? अवयवनिरूपणेनापि प्रतिपादयिष्यामः – अग्निरत्रेत्यस्यां प्रतिज्ञायां अग्निरेवात्रेति नावधार्यते, तत्र पृथिवीत्वादि सद्भावात्, देशस्यैव वा भावात्, तथा च तयोरग्निधूमयोरप्यभावापत्तेः, नाप्यग्निरत्रैवेति, तत्प्रदेशव्यतिरिक्तेषु प्रदेशेष्वग्यभावात् यत्र यत्र धूमस्तत्र तत्रानिरिति न शक्यते वक्तुम्, नाप्यग्निरत्र भवत्येवेति, भवतिप्रयोगाव्यवहारेण हि भवत्यपि कदाचित्, तत्र कादाचित्काग्निव्युदासो निरर्थकः सततमग्निधूमयोरभावात् तस्माद्विवक्षिते देशे काले च भवत्यग्निरिति प्रतिज्ञार्थः, अव्युत्पत्तिविध्यनबधृतेः, रक्तमिदं करवीर -पुष्पमित्यादिप्रतिज्ञावत् । धूम पक्षधर्मोऽनुबद्धरूप एवाग्निना भवति, किमर्थम्, अग्निसहचरितत्वाग्निनिमित्तत्वख्यापनार्थम् इह कचित् सहचरिभावो
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy