________________
अष्टमोऽर: उभयनियमनयः
३०५
यत्तूक्तमव्युत्पन्नस्य तद्गतेरविनाभावित्वेन गृहीतस्वरूपस्य लिङ्गादेः कारणत्वम्, ज्ञापकत्वात्, नोत्पादकवीजादिवदिति, एतदप्ययुक्तम्, अविनाभावित्वस्य सहचारिभावसम्बन्धत्वात्, तस्मात् अपि यो निश्चयः सोऽपि स्वस्वाम्याद्यर्थव्युत्पन्नानामेव, तदादित्वात् सहचरितभावस्य। __अविनाभावगम्यातिरिक्तार्थविषयत्वेन तु स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धरेवानुमानं दृश्यते यथा काकभुवनव्यापि तत् स्वीकृततत्प्रसवकालतत्कृतनीडप्रसवोर्णभेदविवृद्धिपोषणसहचरणपृष्ठतो गमनादीनि धर्मान्तराणि व्यापित्वाविनाभाविरूपोपेततायामपि न कारणानि कोकिलत्वज्ञानस्य आ स्वस्वामिभावाप्रत्यवगमनाऽऽदरात्, पश्चात् तत्प्रतिपत्तिः स्वस्वामिभावादिसम्बन्धेन परित्यज्याविनाभाव्यभिमतान् तत्तद्धर्मान्, लोके प्रतिपत्तारो वक्तारश्च भवन्ति कोकिलशावकोऽयं न काकशावकः, स्वभाषासमन्वितत्वात् विशिष्ट -माधुर्योपेतस्वरत्वादितरकोकिलवदित्येवं स्वस्वाम्यादिसम्बन्धा अनुमापकाः, अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात्, तत्प्रसिद्धलिङ्गवत्। ___यदप्युक्तं न चावश्यं स्वस्वाम्यादिसम्बन्धादनुमानं भवति, तदव्यभिचारार्थं विशेषाकाङ्गितत्वात्, तथा च त एव हि विशेषा अनुमापकाः स्युः, न स्वस्वाम्यादिसम्बन्धः, सत्यपि तस्मिन्ननुमानाभावादित्येतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात्। ___इदं हि सर्वाभासव्युदासेन सम्बन्धिनोऽभिव्यञ्जकम्, प्रत्यक्षादितरः शेषः सम्बन्धी अनुमेयानुमानाभासभेदैः प्रत्यक्षादि