________________
३०२
द्वादशारनयचक्रे
तद्यथा
यद्यपि किञ्चिल्लिङ्गं लिङ्गिनि भवत्येव, न तु तत्त्वेन लिङ्गिनं गमयति, विषाणित्वेन गोर्व्यापित्वेऽपि न गोः प्रकाशकत्वम् व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति,
-
'प्रतिषेध्याप्रचारेण यस्माद्वयाप्तिरपोहते । लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात् सत्यप्यकारणम्”
कृतकत्वस्य ह्यनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम्, तस्माद्यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृतकत्वानवकाशादनित्यत्वस्य कृतकार्थव्यापित्वेऽप्यकृतकत्वप्रतिषेधेन गम्यतैव स्यान गमकत्वे तुल्यत्वमिति चेन्न, विषाणित्वे व्यभिचारात् ।
१२
आह न 'नाशिनः कृतकत्वेन " इति 'विषाणित्वेन गोव्याप्तिः” इति च निर्दिष्टं स्वार्थमनुमानं गम्यगमकनियमव्यवस्थाक्तेः ।
अत्रास्माभिरुच्यते
'तद्भावदर्शनादेव साध्यसाधनधर्मयोः । विधेः संयोगिवद्वृत्तिर्नाधाराधेययोरिव ॥
इति, यत्तद्भावदर्शनं स एवाग्निर्धूमो भवति तेनैवाग्निना धूमेन भूयते तद्देशेन्धनादिसम्बन्धेन, नान्येन, न सोऽग्निर्धूमो न भवतीति तद्भावस्यास्वनिवृत्तिहेतुना वा भूतस्य दर्शनादेव धूमो धूमो भवनेवानं गमयति न तु यत्र न दृष्टस्तदवच्छेदेन तद्भावाग्रहणे दोष - दर्शनात्, अतद्भावान्वयशब्दार्थतायामग्निधूमविपक्षव्यावृत्तिमात्रेष्टौ अनिष्टं स्यात्, अधूमस्य पटस्याभावो घटो वन्ध्यापुत्रो वा स्यात् एवं १. प्रमाणसमुच्चयः ४. ग्रन्थकर्तुः
३.
२.