________________
२६०
द्वादशारनयचक्रे
प्रवर्त्तते, चेतनात्मत्वात्तु कर्ता स प्रवृत्तिहेतुः श्रुत्यन्तरस्य भवितुमर्हति, शब्दार्थयोरेकीभूय वर्तमानयोः काऽन्या श्रुतिः श्रुत्यन्तरमित्युच्यते? केन च विशेषेण तत्प्रवृत्तिहेतुरुच्यते?। __अस्ति विशेषः घटार्थप्रत्यायनार्थं श्रुतेरनुरूपा श्रुतिरेव युक्ता, कारणानुरूपत्वात् कार्याणाम्, नार्थो वैरूप्यात्, तस्माच्छुतिः श्रुत्यन्तरस्य प्रवर्त्तिका, नार्थो नाप्यात्मेत्यत्रोच्यते ननु तस्यापि श्रुत्यन्तरस्य प्रवर्तकोऽर्थ एव, अर्थाभावे प्रयोगानर्थक्यात्, निरुक्त्यर्थोऽप्यभिजल्पस्य तथा घटते नान्यथा, आभिमुख्येन जल्पत्यर्थं शब्दः, तं प्रयुक्तेऽर्थः अभिजल्पयति तद्विषयएवाभिजल्प इत्युच्यते । एतदुक्तं भवति अर्थविषयः शब्दः शब्दार्थकल्पनायां युक्ततरः स्यात्, न तु त्वत्परिकल्पिते शब्दप्रेरिते, एवं तावद्भर्तृहर्यादिदर्शनमयुक्तम्।
यत्तु वसुरातो भर्तृहरेरुपाध्यायः स च स्वरूपानुगतमर्थमविभागेन सनिवेशयति, तेन द्वावपि शब्दोऽर्थश्चाभ्युपगताविति प्राच्यादत्यन्तादर्शनात्तैमिरिकदर्शनमिदं तत्त्वदृष्टिं प्रत्यासीदति, अभिजल्पस्वरूपन्तु पुनस्तेनापि निरस्तम्, ननु स तेन पुष्यशब्दार्थयोरिष्टादन्यान्यलिङ्गादीनि सन्निवेशयिष्यति तथापि शब्दनयाभिहितान् दोषान् परिहर्तुमशक्त एव, ननु शब्दानुगतार्थं अन्तरविभागेनेति ब्रुवताऽर्थतन्त्रः शब्दोऽभिहितो न शब्दतन्त्रोऽर्थः, यद्यर्थमनुगतः शब्दोऽन्तरविभागेन सन्निवेश्येत ततः शब्दप्रेरितत्वाच्छन्दावधारणादर्थोव्युदस्तः स्यात्, किन्तु तद्विपरीतमर्थप्राधान्यावलम्बनं कृतं ततोऽर्थतन्त्रत्वात् शब्दप्रवृत्तेः तदवस्था दोषाः, अतो विशेष एव व्यवस्थितः।