SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमः विधिभङ्गारः सर्वशास्त्रज्ञान्यतरव्याख्यानवत् तन, देशकालाकारनिमित्तावबद्धत्वान्नेष्टमेव फलमवाप्यते सेवकेनेव प्रसन्ननृपादपि, ज्ञाव्याख्यानवत्। अथ देशादयः किमवबन्धकाः? ततस्तेषामकारणत्वादसर्वत्वम्, ततोऽतन्त्रत्वादप्रतिबन्धकत्वम्, अथाऽऽचक्षीथा देशादयः कारणमिति ततः सर्वकारणत्वात्सर्वात्मकत्वात् किमिति सर्वं न भवति, समुदितकारणत्वात्। ___ अथ मतं भवतः सर्वं न भवति, अनभिव्यक्तत्वाद्देशादेः कारणस्य, प्रधानसाम्यावस्थानवत्। मैवं मंस्थाः , ननु च त्वयाप्येतदादिष्टं सर्वं देशादेरिति, तस्मात्सर्वात्मकत्वं सर्वात्मकत्वाच्च वैषम्यावस्थैवेति लौकिकप्रकृतित्वमेव प्रकृतेः, सर्वात्मकत्वाद्देशादिवत् साम्यावस्थैव वा देशादेरपि प्रकृतिवत्। एते अपि च कल्पने नोपपन्ने, अप्रयोजनत्वात्, निर्वृत्तानिर्वृत्तार्थक्रियौदासीन्यवत्। ___ तस्याः प्रकृतेरनभिव्यक्तिसाम्यावस्थाने कालनियतियदृच्छास्वभावेश्वरायन्यतमकारणवशादित्येतच्चायुक्तम्, प्रकृतिकारणत्यागेन हि अभ्युपेतविरोधः, कारणान्तरस्य वा तथा प्रणेतुरापत्तिः । • आत्मान्तरत्वप्रकाशनमयं हि प्रधानस्य धर्मः। उपायानभिज्ञत्वात् कारणान्तरं साचिव्यगुणोपेतमपेक्षत इति, तन ज्ञानार्थत्वात् स्वतन्त्रत्वादप्रतिहतगतत्वाच्च तस्य।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy