________________
२४८
द्वादशारनयचक्रे 'यस्तु प्रयुले कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले।
सोऽनन्तमाप्नोति जयं परत्र वाग्योगविदुष्यति चापशब्दैः॥" इति विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेविषयविशेषपरिग्रहणे साधुताऽसाधुता च शब्दानाम्, गावी गोणी गोता गोपोतलिका इत्यादयो गमका अगमकाथ, यद्येवं तर्हि कया विशेषविवक्षया आप इति दारा गृहा सिकताः? इति।
नित्यमपि बहुवचनं बह्ववयवृत्तत्वादिति चेत्, एकघटेऽप्यत एव नित्यं बहुवचनं प्राप्तम् बिन्द्वादाविवापः, अप्सु वैकवचनं स्यात् नित्यमपि, बह्ववयववृत्तत्वाद्धटवत् अतिशय्येकात्मनिरासेन त्वया विशेषविषयप्रयोगो गवादिवत्साधुरिष्टः सोऽपि तत एव न्यायाव्यभिचरति, सोऽपशब्द एकवचनान्त एव स्यात्, बहवयवात्मकत्वेऽप्येकमिति गृहीतत्वात्, तन्तुपटवत्।
तथा तटस्तटी तटमित्यत्र कतमं वा विशेषमुपादाय लिङ्गभेदः? कतमद्वा सामान्यमतिदिश्यते विशेषप्रतिपादनार्थम्? ननु स्थितिप्रसवसंस्त्यानविशेषविषयो लिङ्गभेदः, न, तटतटीतटानां विषयविशेषो नास्त्यभिन्न स्वरूपत्वात्, घटघटस्वात्मवत्, गोचरविशेषोपपत्तौ वा सोऽपि विशेषो नास्ति, प्रसवस्य संस्त्यानात्मकत्वात्, स्त्रीवत् संस्त्यानस्य प्रसवात्मकत्वात् पुंवत् संस्त्यानप्रसवयोः स्थित्यात्मकत्वात् स्त्रीपुंसवत्, न तटी संस्त्यानम्, प्रसवात्मकत्वात्, तटवत्, न तटः प्रसवः, संस्त्यानात्मकत्वात् तटीवत् न तटं नपुंसकम्, स्थित्यनात्मकत्वात् तटीवत् अथ च..... १. महाभाष्यम् १-१-पस्पशालिके