SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३८ द्वादशारनयचक्रे शिविकावाहकवत्तुल्यशक्तीनामप्यर्थानामङ्गाङ्गिभावदर्शनादिति चेन, शिविकावाहकवत् सामान्यविशेषयोः प्रधानभूतस्यान्यस्य प्रयोजयितुरभावात्, उत्तरभावः प्रयोजयितेति चेन, तदाऽभूतत्वात्। ___अभ्युपेत्यापि तदुत्पत्तिमुत्पन्नस्यापि तदात्मकत्वात् पूर्वमेवोत्तरः कथमात्मानमेव प्रयोजयितुमर्हति? भेदमभ्युपगम्यापि शिविकावाहकवदस्वतन्त्रत्वादप्रवर्तकत्वम्। अथ सन्मित्रवदन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति चेन्न, वक्ष्यमाणैतनयमतादन्यतरोपसर्जनप्रधानभावाभावात्, अथोपसर्जनावेव भावाभावौ ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यम्, तदभावे प्रवृत्त्यभावात्, दृष्टा हि प्रवृत्तिरवलयोर्बलबदाश्रया, एतावती च प्रवृत्तिः सामान्यविशेषयोर्भवन्ती भवेत्, सर्वथा साऽनुपपन्ना, भावाभावयोरेव पर्यायमात्रत्वात्, गुणगुण्यादिकल्पनास्वपि भावाभावत्वव्यतिरिक्तार्थाभावाविधैव स्यात् तथा वस्तु परिक्ष्यमाणं चतुर्धाऽपि न घटते। न च प्रधानेन विनोपसर्जनम्, भृतकादिरिव स्वामिना, न च प्रधानोपसर्जनभावेन विना दृश्यते भोक्तृचेतनाधिष्ठितशरीराद्यर्थाऽऽहारादिवस्तुप्रवृत्तिरिति तयोरेव प्रधानोपसर्जनतेति भवत् प्रधानं कर्तृसाधनं प्रत्ययार्थः, भाव उपसर्जनं भावसाधनं प्रकृत्यर्थः, प्रकृत्यर्थविवक्षायामपि कर्बर्थप्राधान्याद् भावसाधनत्वेऽपि कर्थ एवोच्यते, यत्तेन भूयते यदसौ भवति भवनमापद्यते भवनक्रियामनुभवति स्वरूपप्रतिलम्भे गुणभूतं क्रियात्वं प्रतिपद्यमानोऽर्थो विपरिवर्त्तत इत्युक्तं भवति नटपरमार्थनृपत्ववत्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy