SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽरः विधिनियमोभयनयः २३१ मात्रत्वाच्च जलचन्द्रस्य, भावो वा कुत इत्यलमतिविकासिन्या सङ्कथया। एवमेतदुभयमुभयभागित्यस्य नयस्य स्वरूपम्, यत्तत्सामान्य तदपि विधीयते नियम्यते च, योऽपि विशेषः सोऽपि विधीयते नियम्यते च, सामान्यं भावः प्रकृत्यर्थः यत्तत्तेन भूयते सा सत्ता 'भू सत्ताया मिति पाठात् सामान्यम्, विशेषोऽपि प्रत्ययार्थः सः, तस्यैव भवितृत्ववाचिप्रत्ययार्थत्वात्, योऽसौ भवति स विशेषः सामान्यमपि भवनात्मकत्वात् भवनसामान्यमन्तरेण तस्याकर्तृत्वात् स एव प्रकृत्यर्थानतिक्रमेण वृत्तः। सामान्यं प्रवृत्तिः द्रव्यमन्वयो धर्मी विधिर्भाव इति, विशेषोऽपि निवृत्तिः पर्यायोऽन्यत्वं धर्मो नियमोऽभाव इति, द्वावेतौ भावौ पूर्ववदेकमेवेदमित्येवंविधं भावमनापद्यमानौ सामान्यमपि सामान्यं विशेषश्च भवतः, विशेषोऽपि विशेषः सामान्यश्च भवतः, प्रवृत्तिः निवृत्तिरित्यायुभयमन्योऽन्याविनाभाविभावः तस्य सतो भावः सत्ता, येन हि सता यथा भूयते सततनियमेनेति उभयोर्नियमो विधिश्च। यदि स्यात् ..... खपुष्पवत्। एवं द्रव्यक्षेत्रकालभावैः घटपटघटान्तरगृहबहिःस्वपरक्षेत्रान्तर वर्तमानातीतानागतकालान्तरैः घटशिवकस्तूपकादिकपालादि पूर्वोत्तरभावैः वर्तमानयुगपदयुगपद्भाविभावभावान्तरैर्वा भावाभावाभ्यां भवतीति घटस्य सदसत्त्वम्, प्रतिवृत्तिवस्तुप्रवृत्तेः घटादि १. धातुपाठः १
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy