SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सप्तमोsर: विधिनियमोभयनयः २२९ योऽयं गुणस्य कर्मत्वेन सम्बन्धः स एव द्रव्यस्यापीति प्राप्तं गुणस्य कर्मणश्च द्रव्यत्वम्, द्रव्यत्वाभिसम्बन्धाच्च तयोर्द्रव्यत्वापत्तिः गुणकर्मभावत्यागश्च तस्य द्रव्यस्य गुणभावेन कर्मभावेन च सम्बद्धत्वात् गुणभूतस्य कर्मभूतस्य च गुणक्रियानाश्रयस्याभावः, असति द्रव्ये कस्य गुणः कर्म वेति न गुणकर्मणी तथा लक्षणे, तयोरलक्षणत्वादसत्त्वात् आश्रयोपलक्ष्यद्रव्याभावः तस्मिंश्वासति निराश्रययोर्गुणकर्मणोरभावाद्द्रव्यस्य चाभावादाश्रयिणां द्रव्यत्वादीनां अप्यभावः, तथा कार्यकारणयोः गुणस्येत्यादिः । .... ननु सर्वगतत्वात् समवायस्य स्वतत्त्वेनापि सम्बन्धात् द्रव्यभावः गुणभावः कर्मभावो वा सिद्ध्यतीत्यत्रोच्यते, नन्वत एव सङ्कर उच्यते, परतत्त्वेनापि सम्बन्धादतत्त्वमपीति सङ्करदोषाविमोक्षः, एवञ्च स्वविषयसर्वगतानि हि तत्त्वानि, समवायस्य सर्वगतत्वे तान्यधुना सर्वगतानि प्राप्तानीत्यभ्युपगमविरोधः, अतो द्रव्यगुणकर्मणां व्यवस्थितानामभावात् कथं द्रव्येषु द्रव्यज्ञानं? गुणेषु गुणज्ञानं? कर्मसु कर्मज्ञानमिति । यदपि कुण्डदधिसंयोगबद्द्रव्यादीनामाधाराधेयनियम इत्युक्तं तदपि नैव, कुण्डदध्याधाराधेयभावसमवायानामप्येकत्वात् तदवस्थः सङ्करदोषः, यद्यसङ्करेण नियमेन वाऽर्थो वयमेव स्पष्टतरं ब्रूमः, समवायनिमित्तस्य तत्त्वस्य स्वत एवात्मप्रतिलम्भः, तयोश्च लोकसिद्धिवद्भेदः स्ववृत्तिप्रतिलम्भादेव, दधिकुण्डयोर्लोकसिद्धिवद्भेदाभावात् कारकशक्तित एव तु प्रतिपद्यते भेदसिद्धिः, तयो:संयोगैकत्वेऽप्याधारशक्तिः कुण्डस्य, आधेयशक्तिर्दन इत्यसङ्कीर्ण
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy