SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽरः विधिनियमोभयनयः २२५ सत्तासम्बन्धरहितेषु द्रव्यत्वादिष्वौपचारिकौ तौ स्याताम्, असंख्ययोर्गुणत्वकर्मत्वयोरेकाभिधानप्रत्ययवदिति चेत्तर्हि द्रव्यादिषु अपि द्रव्यत्वादिः रहितेषु तावौपचारिको स्याताम्, मनुष्यसिंहत्वादिवत्तथाऽञ्जसाऽनुपपपत्तेर्नेति चेत् ततस्ते स्वपक्ष एव दोषविधानम्, यदि तु सत्तासम्बन्धापेक्षौ सदभिधानप्रत्ययौ तर्हि कथं सत्तादिषु तावौपचारिकाविति, त्वमेवासि प्रष्टव्यः यत्पुनरिदमुच्यते सत्तायां सिद्ध इति चेत्, यदा च....... आत्मानमात्मना न युक्तमभियोक्तुं..... तद्योगनिमित्तम्, तदयुक्तं न द्रव्यादिष्वासा सिद्धिः, अतदात्मनिमित्तस्य सत्प्रत्ययस्यानुपपत्तेः, मनोरथवत्। द्रव्यादिभाक्तत्वनिवृत्तिः स्वतः सत्त्वं सत्तादिवचैतस्य वचनस्य व्याघात इत्येतद्दोषद्वयदर्शनादिति चेनैव च दोषः दण्डित्वदण्डत्वयोर्यथायथं स्वत एव सतोः तत्सम्बद्धत्वात्, सत्त्वतः सत्त्ववत्, सदेव स्वं सत्त्वतः - सत्त्वात्, सदेव सत्, न सत्तातोऽन्यत् सत्, तस्मात् सर्वस्य सतो नास्त्यतादात्म्यं सदात्मैव सर्वमिति भाक्तत्वनिवृत्त्यायभावः, सदादिवञ्च स्वतः सत्त्वम्। ___ यतश्चैवं ततः सतो भावः सत्तेति द्रव्यायव्यतिरिक्तसत्ताव ज्ञायते, कर्तरि षष्ठीवृत्तेः यत्तत् सद्भिः ............ सदित्यभिधानप्रत्ययकारणं सर्वत्र, एवमपि ......... युदुक्तं स्वतः सत्त्वमिति, एतदयुक्तं अत्र हि सत्तावदिति सर्वमिदं त्वदनुवृत्त्या, न मम सत्ता द्रव्यादिव्यतिरिक्ता काचिदस्ति 'कर्त्तरि षष्ठी'त्युक्तत्वात्, ततोऽनुपपन्नं द्रव्यादीनामनेकत्वम्। १. पाणिनि
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy