________________
द्वादशारनयचक्रे
द्रव्यादिप्रत्यपेक्षया सर्वस्यास्य सम्बद्धत्वादेकैकस्य निरवशेषमिदं जगद्विशेषणमिति पूर्ववदेव स्यादेकघटसंहतनानावस्थगुणवत्।
तत्र सर्वार्थानां नित्यप्रवृत्तत्वात् समयमपि नास्ति तेषां समवस्थानं यदाश्रयो विशेषोऽवस्थाप्येत आत्तवदिति समवस्थानाभावानिराश्रयः खपुष्पवनास्ति विशेषः।
स्यान्मतं सम्बन्धदेशो न दृष्यते, उपेक्ष्यत इत्यत्रोच्यते सम्बन्धदेशोपेक्षायामुपान्त्यत्यागोऽकस्मात् सामान्याभ्युपगमात् तुल्यत्वात् सामान्यस्य।
रूपादिभेदसम्बन्ध एव विशेष उच्यते, तन्न, अन्यासम्बन्धेऽरूपादित्वात्तेषाम्, सर्वे सर्वत्र सर्वदा सर्वथा द्रव्यक्षेत्रकालभावाविभागसम्बद्धरसा एव हि रूपादयः, शुद्धानां कचिदप्यभावात्।
लोके दृष्टो ननु च वायौ शुद्ध एव स्पर्शः, उच्यते तत्रापि हि क्षेत्रादिद्रव्यस्य रूपादयो न गृह्यन्ते, अनभिव्यक्तिसौक्ष्म्यात् वैधhण द्रव्यादिवत्, चक्षुरादीन्द्रियग्राह्यपरिणत्यभावाद्धेत्वनुमेयता भावात्, वातायनरेणुस्पर्शरसगन्धादिवन्न गृह्यन्ते।
अथोच्येत योककालसहावस्थानादर्थानां विशेषो भविष्यति, अवतिष्ठते हि किश्चित्कञ्चित्कालम्, यथा पूर्वापरस्थितघटपटाविति, एवमपि तथाभूतसामान्याभ्युपगमादविशेषत्वमेव ।