SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८२ द्वादशारनयचक्रे यथा च तत्रोच्यते नैष दोषः, विशेष इति हि भवतः क सम्प्रत्ययः? य उपादीयमानोऽन्यं निवर्त्तयतीति परो ब्रूयात् यद्येवं वृतादयोऽपि उपादीयमाना विशेषानिवर्तयन्ति तैर्हि गच्छत्यादयो विशेषा निवर्त्यन्ते न गच्छति न शेते न भुते वर्त्तत एवास्ति भवति विद्यत एव केवलमिति, तिष्ठत्यादिवत्, यथाचोक्तं भाष्यकारेण 'सामान्यमपि यथा विशेषस्तद्वदिति', ततश्चैषां सिद्धा धातुसंज्ञेति यथा तत्र प्रवृत्तिसामान्यनिवृत्त्यर्थे विशेषग्रहणे परिहार एवमिहापि प्रत्युच्यते, एवञ्चोच्यमाने नन्वस्मद्धृदय एव दृष्टं फलमभिव्यक्तम्, नन्वस्माभिरप्यभिहितं प्रवृत्तिरेव प्रवृत्तिविशेष इति, एवञ्च कृत्वा प्रवृत्तिमात्रस्य सर्वत्र भावात् विशेषग्रहणमनर्थकमुभयोरपि व्याख्याविकल्पयोः। ___ न चाफलमेव, अनिष्टकृदपि, एवं देवदत्तस्य क्रियात्वं स्यात्, अन्यनिवर्त्तनप्रवृत्तिविशेषत्वात्, पचादिवृतादिवदिति, येऽप्यमी वृतादयस्तेऽपि अक्रियास्तच्छब्दानामधातुसंज्ञा च स्यात्, सर्वभेदसम्बन्धानुगुणविशेषत्वाद्देवदत्तवदेव। यत्तु पुनः पचादिविशेषनिवर्तकत्वाद्धृतादयो धातुसंज्ञा भवन्तीत्युक्ते नैव निवर्तयन्ति पचादीन् वृतादयो विरोधाभावाच्च वृताधन्तर्भावात् पचादीनामतो न धातुसंज्ञा वृतादयः स्युरित्याशक्य तत्प्रतिसमाधानं पुनरुच्यते निवृत्तिरत्रास्माभिर्नार्थधर्मप्रकल्पिता विवक्षिता, किं तर्हि? पचतीत्यादिशब्दधर्मप्रकल्पिता सा विज्ञानप्रवृत्तिनिवृत्तिमात्रकृता, यथा देवदत्ते सर्वधर्मसम्बन्धिन्यपि १.महा.अ. १ पा.२सू.२४
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy