________________
प्रथमः विधिभङ्गारः
अनवस्थाने वा नित्यप्रवृत्तत्वात् सर्वार्थानां समयमपि तथा समवस्थानं नास्ति यथा समानता निरूप्येत।
अथान्तरेण रूपप्राप्तिं नोक्तिप्रत्ययौ दण्डिवदिति व्यक्तिभिन्नाऽर्थसिद्धिरिष्यते, तन्न । अन्यतोऽपि तयोः सिद्धेः । तौ हि कस्मिंश्चिदेवाऽऽकारादिमात्रे, अन्यथाऽऽकाशादिषु विनाऽ नुवृत्त्या कुतोऽभिधानप्रत्ययौ? दृश्येते चात्रापि तौ, तस्मानास्ति सामान्यम्।
किश्चान्यत् सामयिकत्वाच्छब्दार्थप्रत्ययस्य तौ लोकवृद्धव्यवहारात्मकौ लोकवृद्धव्यवहारं दृष्ट्वा बालानामभिधानप्रत्ययौ भवतः, न तत्त्वानुवृत्तिव्यावृत्तिकृतौ, लोकस्य तत्तत्त्वाद्यज्ञानात्।
तथा ह्यन्यतरेण तत्त्वं द्रव्यं समवायश्चाद्रव्ये आकाशादावनेकद्रव्ये आ अन्त्यावयविद्रव्यात् कुड्यलिखिते क्रीडनके चोक्तिप्रत्ययौ दृष्टौ, न भवेदेतत् तत्त्वमात्रेऽपि त्वाकारमात्रे।
तौ च तत्र तत्त्वस्योपनिलयनात् कृताविति चेत्तत्र तत्त्वाभाव उक्तः, सत्यपि च तत्त्वेऽस्मदिष्टाकारमात्रत उक्तिप्रत्ययौ चोक्तौ, अथाप्याभासमात्रे तत्त्वोपनिलयनमिष्यते त्वया ततः स्थाणुमृगतृष्णिकयो रसलिलत्वप्रसङ्गः, तत्र तदभिधानप्रत्ययसद्भावात्, तत्तत्त्वोपनिलयनाच्च, घटत्वोपनिलयनाद्धटवत्, अनुपनिपाते नरसलिलोक्तिप्रत्ययौ मा भूताम्, तौ च दृष्टौ कथमगृहीतविशेषणत्वानरत्वसलिलत्वानुपनिपातेन युक्तौ, तत्रोपचारलभ्यौ हि तौ, इह तु