SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽरः उभयनयः १६७ नोच्यते योऽसौ भवति कोऽपीति, अस्वशब्दोपादानसाध्यभावत्वात् भावस्यास्मदुक्तानुकारात्, तद्विपर्ययेण तु द्रव्यभावस्य प्रश्नप्रतिवचने दृष्टे व्युत्पादनकाले, तद्यथा कस्य भाव इति प्रश्नः, प्रतिवचनमपि योऽसौ भवतीति उच्यते नोच्यते यत्तद्भूयते तद्भवनमेव, किं भूयते न भूयते केनापीति, स्वशब्दोपादानसिद्धभावत्वात् सत्त्वस्य। लिङ्गादिमद्रव्यं तद्रहिता च क्रिया भिन्नमुभयमेव भाव इति लिङ्गसङ्ख्यावतो द्रव्यात् वस्तुत्वैकत्वगता क्रिया स्वरूपतोऽन्यैव, अलिङ्गसङ्ख्यत्वात् प्लक्षादिवत्, भिन्नानां पदार्थानामेकसम्बन्धि विषयवार्थः, समुच्चयोऽन्वाचयः समाहार इतरेतरयोगश्च पदार्थोत्तरकालभाविनः द्रव्याणां गुणानां क्रियाणाञ्च दृश्यन्ते, न चैते द्रव्यं न क्रिया न गुणः किन्तु वीरपुरुषविशेषणविशेष्यैकात्मवत् वस्तुत्वैकत्वगत्याऽनन्यान्यत्वभाजो धर्माः। साधु भवतीत्यादौ भवने भवितृषु लिङ्गसङ्याभेदवत्सु याः लिङ्गसङ्ख्यास्ता न भवन्ति, भवने नपुंसकलिङ्गमेकवचनश्चानुमीयते श्रूयते च तद्विशेषणे साधुशब्दे, तस्मादन्यद्भवनं भवद्भयः। प्रत्ययपप्रकृतिव्यवस्थायान्तु प्रथमैकवचने अतिक्रमकारणाभावात्, नपुंसकञ्च भवनस्याव्याक्तत्वात्, यथा लोके दृष्टं किमपि दृश्यत इति, तथा त्रिकालविषयाव्यादन्यो भावो न च तेन विना कारकः त्रिकालत्वात्, द्रव्यं त्रिकालविषयं भावस्य त्रिधा भिन्नकालत्वेऽप्येकरूपत्वात्, वर्तमानत्वेनावतिष्ठमानं तत्सम्बन्धे द्रव्यं त्रीनपि कालान् विषयीकरोति गमनगन्तृवत्, वर्तमान एव देवदत्ते गन्तरि गतेस्त्रैकाल्यं दृष्टम्, अगमद्गच्छति गमिष्यतीति. तथाऽभूद्भवति भविष्यति द्रव्यमिति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy