SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चतुर्थो विधिनियमारः १६३ त्वमेव व्यवस्थापितं द्रव्येणैव द्रव्यं क्रियते ब्रीहिवदिति, सत्यां कर्मतायामपि कर्तृत्वं द्रव्यत्वादिति । एतस्मिंश्च नये द्रव्यमेव शब्दार्थः स च नित्यो विच्छेदा भावादवस्थितत्वाद्वा । अन्वाह च पृथिवी धातौ किं सत्यम् ? विकल्पः, विकल्पे किं सत्यम्? ज्ञानम्, ज्ञाने किं सत्यम् ? ओम्, तदेतद्ब्रह्म । - एतदुक्तं भवति - अतः परं शब्दार्थव्यवहारो निवर्त्तते निर्विकल्पत्वात्, व्यवहारातीतोऽयमर्थः, कथमोमित्येषोऽन्वयव्यतिरेकरहितः शब्दार्थो भवितुमर्हतीति चेत् को ब्रूतेऽन्वयव्यतिरेक रहित इति, यस्मादत्रानुवृत्तिव्यावृत्ती अनन्तरोक्तपृथिव्यादिधातुविकल्पज्ञानसत्यत्वानुप्रबन्धसामर्थ्योपहितरूपे, एते चानुवृत्तिव्यावृत्ती यथा भागं प्रसिद्धिं गच्छतः, स च शब्दार्थोऽनाद्यनुप्रबन्धसामर्थ्योपहितानुप्रवृत्तित्वान्नित्यः, अत्रोत्पादविनाशशब्दावपि तत्स्थितरूपावेब, नासदुद्भवात्यन्तविनाशरूपौ ऊर्ध्वपतनव्यक्त्यर्थसर्पनिपतनवद्द्रव्य स्वतत्त्वावेवोत्पद्यते विनश्यतीति चोच्यते । अनित्यघटादिशब्दा अपि नात्यन्तमुत्पन्नमभूतञ्चार्थं ब्रुवते, स्वसत्त्वबीजं द्रव्यमेवाविच्छिन्नमाहुः । वाक्यार्थोऽपि च पृथक् सर्वं पदम् । निबन्धनमप्यस्य ‘जे एगणामे से बहुणामे' इति । इति चतुर्थोऽर: नयचक्रस्य समाप्तः । प्रथमच मार्गो नेमिरित्यर्थः । * * 'अर्धमेतत् पुस्तकं समाप्तम् इति मातृकासु दृश्यते ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy