________________
चतुर्थो विधिनियमारः
नन्वेवं त्वदुक्ता एवोपपत्तयः प्रत्येकं सर्वप्राणीश्वरत्वं साधयन्ति, बाह्याध्यात्मिकसुखदुःखमोहमात्रत्वाज्जगतः, सदसवेद्य -मोहान्तरायभेदानां सुखादित्रयविपाकफलत्वानतिवृत्तेस्तदात्मसंवेद्य -लक्षणत्वात् कर्मणः, सुखादिसंवेदनेनैव हि लक्ष्यते, अतः कारणे कार्यस्य सत्त्वात् कार्ये कारणोपचारात् सुखादयः कर्म, अन्नप्राणत्ववत्।
__ आत्मापि कर्म ततः सुखादि, पुनरपि सुखाद्रागादिफलं ततः पुनः कर्म ततः सुखादिफलम्, तच्च जीवपरिणामात्मसात्कृत कार्मणयोग्यपरिणामपरमाणुसमूह एवात्मस्थमेकीभूतश्चात्मना, तच्च संवेद्यम्, कर्तुः संवेदनात्, प्राक् प्रतिपादितं हि व्यणुकत्र्यणुकादिसंयोगैः पृथिव्युदकब्रीह्यङ्गुरादिपरिवृत्तिरूपेणात्मन स्तेषाश्चैकत्वं सर्व -सर्वात्मकत्वञ्च, तस्मात् कर्मकारणां जगत्प्रवृत्तिं साधयन्ति त्वदुक्ता एवोपपत्तयः।
इतच कर्मपूर्वकं जगत्, कर्मप्रवर्त्तनाभ्युपगमात् सर्वप्राणिनाम्, कर्तृत्वात् कत्तुरेव भवितृत्वाभ्युपगमात् तस्यैव भवितुर्थ प्रयोजनात्।