________________
तृतीयो विध्युभयारः
१३५ अनवधारितलघ्वादिधर्मतायामितरात्मकमपीति लघुचलगुर्वाद्यात्मकतयैव पक्षधर्मता स्यादित्यतथा तेनैव, असजातीयलक्षणव्यावृत्तार्थविषयतया अस्मान् प्रति तावदसिद्धं लघुरेवेति । तद्यथा 'णिच्छयओ सव्वलहुं ति गाथा।' __अत्यन्तगुरुतायामेतदेव पतेत् संयोगभावेऽप्यविषयगुरुत्वात् प्रतिबन्धानिवार्यस्यूतोपलवत्, योगिनोऽपि च गुरुत्वात् सुतरां पतनमेव स्यात् शिलाबद्धशिलावत्।
अत्यन्तलघुतायां न कदाचिदपि पतनं स्यात् तस्योत्पत्ति कारणाभावात् खपुष्पवत्, दृष्टविरुद्धमुच्यते गुरुलघुत्वदर्शनात्, अर्कतूलो लघुर्गुरुर्लाहपिण्ड इति, न, कन्यानुदरवत्तु व्यवहारोऽयमपेक्षाकृतो बादरस्कन्धविषय इति।
___ एवमापेक्षिकलघुगुरुत्वे अनवस्थिततत्त्वे अस्मान् प्रति न परस्परतोऽन्ये इति नायःपिण्डार्कतूलदृष्टान्तोऽस्ति।
अथ ममात्र किम्? यत्तु भवनश्च प्रसिद्धम् यदपि च भवत्सिद्धान्तेनोक्तम्-द्रव्यश्चैतदेवं लघुगुरुत्वापेक्षया तदेव दृष्टमिति, तनोपपद्यते, गुरुलघ्वादयो हि गुणाः सत्त्वरजस्तमांसि च, द्रव्यता तेषां सन्द्रावे एकत्वापत्तौ भवति, ते च गुणाः परस्परतोऽन्य इति।
__ आ अद्यापि प्रतिपादनमेव वर्ततेऽन्यत्वं गुणानाम्, गुणसन्द्रावद्रव्यत्वे तवाप्येतद्रव्यमेव न गुणाः पृथक् सन्द्रुतानामेवाव -स्थानात् कुतः स्यात् सन्द्रावः? तत्रापि च प्रतिज्ञायते सत्त्वादयो
१. बृहत्कल्पभाष्ये गाथा-६५