SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३३ तृतीयो विध्युभयारः सर्वाप्येषा मृद्धटव्यक्तिशक्तिस्थूलतैव, तथा सत्त्वप्रकाशादिप्रपञ्चा व्यक्तिरेकैव सत्त्वमिति वा रज इति वा तम इति वा प्रधान इति वा यथेच्छसि तथाऽस्तु सर्वथाऽप्येकस्य कारणाख्यस्य वस्तुनः सूक्ष्मस्य स्थूलतैव व्यक्तिरिति । युदुच्यते रजः शब्दकार्यं प्रख्याय तदात्मना व्यवतिष्ठमानं सत्त्वतमसोः शब्दात्मभावाय प्रवृत्तिं प्रख्यापयतीति तदपि पूर्ववत् प्रश्नद्वयं कृत्वा प्रकाशस्थाने प्रवृत्तिं कृत्वा सर्वमनुगन्तव्यं यावद्वायुमिति, तथा तमः शब्दकार्यमित्यादि तथैवानुगन्तव्यं प्रकाशस्थाने नियमं कृत्वा यावल्लम्बनपाषाणमिति। अतस्त्रीण्यप्येकम्, अपृथग्भूतसमवस्थानस्वरूपभेदात्मकत्वात्, वरणादितमस्त्ववत्। अपृथग्भवनसमवस्थानस्वरूपभेदात्मकत्वमसिद्धं सुखदुःखमोहानां जात्यन्तरत्वात्, कथं पुनरेतदुपलभ्यते सुखदुःखमोहा जात्यन्तराणीत्यत्रोच्यते सुखं लध्वप्रवृत्तिशीलं प्रकाशकं दृष्टम्, सुखाश्च करणप्रकाशाः, तस्मात् प्रवृत्तिनियमाभ्यामन्ये, तथा दुःखं चलमप्रकाशकं प्रवृत्तिशीलं दृष्टम्, दुःखाश्च करणप्रवृत्तयः, तस्मात् प्रकाशनियमाभ्यामन्याः, तथा मोहो गुरुप्रकाशको दृष्टः मूढाश्च करणनियमाः तस्मात् प्रकाशप्रवृत्तिभ्यामन्य इति, एवं आध्यात्मिकानां कार्यकरणात्मकानां सुखदुःखमोहमयत्वं बोध्यम् । सत्त्वरजस्तमांसि जात्यन्तराणि, लक्षणभेदात् चेतनशरीरवत्, लक्षणभेदश्च सत्त्वं लध्वप्रवृत्तिशीलं प्रकाशकं दृष्टमित्युभाभ्यामन्यत्,. रजश्वलमप्रकाशकं प्रवृत्तिशीलमित्युभाभ्यामन्यत्, मोहो गुरुरित्युभाभ्यामन्य इति।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy