________________
तृतीयो विध्युभयारः
१२९ वियत्पृथिवीविशेषोपपत्तिवच्च ते एव प्रवर्तते न पुरुष इत्यस्तु नाम, किन्त्वयमन्यस्ते दोष आपद्यते, प्रकाशात्मके तर्हि रजस्तमसी, शब्दात्मभावाय प्रवृत्तेः सत्त्ववत्, वैधर्येण पुरुषवत्, असत्कार्यवादिता चात्यन्तानिष्टा प्रसक्ता, सा च विस्फुटैव, सत्त्वे प्रवृत्तिनियमयोरभूतयोः शब्दात्मव्यवस्थावचनादभ्युपगमात् ।
यदि तत्सत्त्वमप्रवृत्तमनियतं वा पूर्ववदप्रवृत्तत्वादनियतत्वाच तयोस्तथारूपां प्रवृत्तिं न प्रख्यापयेत्, नैवम् वन्ध्यापुत्रवदित्युक्तत्वात्, व्यवस्थानस्य च प्रागसतः सत्त्वविषयस्याऽऽरम्भावस्थायामभ्युपगतत्वात्।
रजस्तमसोः शब्दभावाय प्रवृत्तिं प्रख्यापयतीति वचनात्तयोः प्रागसतः प्रकाशनस्याभ्युपगमादसतोऽभिव्यक्तिरुत्पत्तिर्वाऽभ्युपगता, यद ते तथाप्रतिपद्यते ततः सत्त्वेन प्रकाशिते, आचार्येणेव नर्तकी।
पृथग्भूततत्त्वाश्रयकारणे गुणेऽसतां प्रकाशप्रवृत्तिनियमाना मुत्पत्तिः वैशेषिकाभिमततन्त्वाश्रयपटवत् ।
तैर्यथास्वमकारणसद्भिरारब्धं यत्कार्यं त्रिगुणं शब्दादि तदपि भ्रान्तिमात्रम्, त्वदुक्तहेतुसामादेव, त्वयैवोक्त हि यच्च यन्मयैरारब्धं तदात्मकं तदिति, तस्माच्छब्दायसदात्मकं तन्मयैरारब्धत्वात् कार्पासिकतन्त्वारब्धपटकासिकत्ववत् तन्मयतन्मयश्च भूतादि शरीरादि घटादि च रूपादिसुखादिमयत्ववत् ।