________________
तृतीयो विध्युभयारः
१२१
एवन्तु नानयोरितरेतरानुग्राहिता, उत्थाप्यसाहायकशक्तित्वात्, वाताहतनौद्वयवत्, ग्लानशिविकावाहकवत्, असम्पूर्णशक्तिता वाऽप्रकर्ष इति कारणतैव न स्यात्तस्य, उपहतबीजवत्। ___“असदकरणादित" श्रान्यतो न तत्स्वरूपव्यक्तिः, किन्तु स्वत एव यदा च सुदूरमपि गत्वा प्रागवृत्तेरसत्कार्यवादपरिहारेण प्रकर्षो न परिणामवादाढते तदा परिणामादात्मन्येव वर्तते युवत्ववत्, अन्यत्र वृतस्य परिणामस्यान्यत्रापरिणामकत्वात्।
एवं तर्हि पूर्ववदुदाहरणादेव पाश्चात्यावस्था विशिष्टा, स विशेषो रजःप्रवर्त्तनादेव क्षीरदधिपरिणामकालत्ववत् पूर्वं न प्रवृत्तं पश्चाच्च प्रवृत्तमिति, एतन, परिणामस्य तत्रैवोक्तत्वात्, प्रकाशात्मैव हि प्रवृत्तिः कालः, इतरथा स प्रकाशो न स एव, तथाऽप्रवृत्तत्वात्, तथाऽभूतत्वादित्यर्थः, घटपटवत् । यैव च प्रवृत्तिः स एव प्रकाशः, तथावृत्तत्वात्, घटघटस्वात्मवत्। .
प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेन, तदात्मन एव प्रवृत्तत्वात्, रजसा सन्निधिमात्रात् पूर्ववदप्रवर्तनात्, य एवासौ सत्त्वस्यात्मा प्रकाशः तथा प्रवर्त्यव्यक्तिस्वरूपः नर्तकाचार्य इव नर्तक्याः प्रवर्तकः, तथा व्यापारणादिति त्वदभिमतप्रवर्तकत्वविपर्ययापत्तिरेव । रजःप्रवृत्त्यात्मरूपापादनात् सत्त्वं प्रवर्तकमितरथा स्वरूपापादनाद्रजोवत् । रजोऽपि हि त्वन्मतेन प्रवर्त्तमान-.
१. साङ्यकारिका ९