SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तृतीयो विध्युभयारः ११९ एकसुखस्वात्मत्वादव्यतिरिक्ततत्त्वं प्रकाशात्मना मा प्रवर्त्तिष्ट निर्गुणत्वादेकत्वाद्वैषम्यानुपपत्तेरपरिणामित्वादनापत्त्यात्मकत्वात् पुरुषवत्, तथा तद्धर्मवत्त्वात् पुरुषोऽपि प्रवर्त्ततामेभ्य एव, सुखादिवत्, शब्दादि वाप्येकात्मकायेव प्रधानावस्थायामप्रवर्त्तमानत्वात् सुखादिवत्, अनेकात्मकं वा सुखादि, तत एव शब्दवत्। नैव प्रवर्त्तते सुखादि, अप्रवृत्तिलक्षणत्वात्, रज एव प्रवृत्तिलक्षणम्, प्रत्येकं न हि सत्त्वादयः प्रकाशप्रवृत्तिनियमलक्षणास्ततोऽप्रवृत्तिलक्षणत्वान्न प्रवर्त्तन्ते पुरुषवत्, वैषम्यावस्थायान्तु रजः प्रवर्त्तते प्रवर्त्तयति च सुखं मोहश्चेति। त्रयमपि न न प्रवर्त्तते, अविभक्तस्वतत्त्वस्य तथा प्रविभक्तत्वेन व्यवस्थानात्, यथा मयूराण्डकरसगतग्रीवादिभावाः, यन्न प्रवर्त्तते तदविभक्तस्वतत्त्वं सत् कदाचित् प्रविभक्तत्वेन न व्यवतिष्ठते यथा पुरुषः, यथा वा मयूराण्डकरसे हंसग्रीवादयः, द्रव्यार्थनयविकल्पानां सत्कारणवादिनामसदापत्तिप्रवृत्तेः, यत इह भाव एव यतः। ननु विभक्तरसग्रीवाद्यापत्तिवत् प्रधानस्यैव च सापत्तिः सिद्धयतीत्यत्रोच्यते कस्य वा न मनोरथः? कथं भवान् अनेकात्मकमेकमेव कारणमनेककार्यतया विपरिवर्त्तमानमित्येतदर्शनं प्रतिपद्यतेति, तस्य च कारणस्य प्रधानं पुरुषो नियतिः शब्दब्रह्मेत्यादिसंज्ञा त्वयेष्टा याऽस्तु साऽस्तु, किं नो विवादेन, तदर्थ
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy