________________
११४
द्वादशारनयचक्रे अथवा त्वदभिप्रेतमेवैतदेवम्, तदात्मत्वाभिमतनिरसनात्, यथोष्णो न भवत्यग्निरिति ब्रुवन्नौष्ण्यात्मानमग्निमेव निरस्येत् तथेहापि।
यत्तु यत्नेन (अवस्थालक्षणः पुरुषः पुरुषलक्षणा अवस्था इत्यतिदिश्यते तेनैकत्वान्यत्वादिविकल्पप्रसङ्गेनाविकल्पपरमार्थतयेष्टस्य तस्यासत्त्वमेवोक्तमतो न तूक्तवत्।)
___ वयमपि बमोऽसदेव सर्वं त्वदिष्टमिति, त्वन्मते सर्वस्याभावात् । भवनं हि द्विविधं सन्निधिभवनमापत्तिभवनश्च । सन्निधिभवनमापत्तिभवनाभावे न भवितुमर्हति । इदमपि कुतोऽस्य? भेदत्वेन परिणामित्वेन वाऽभूतत्वात्, वन्ध्यापुत्रवत्।।
अव्यभिचरितानेकत्वापत्तिहनेकेन विना न भवति यथा शुक्रशोणितादेरनेकस्यैकत्वापन्नस्याध्यात्मिकस्य, स हि भेदभावः सर्वत्वं तस्मानाभिन्नस्यैकस्य सर्वत्वमिति सर्वत्वाभावात् 'पुरुष एवेदं सर्व'मित्ययुक्तमुच्यते।
त्वदुक्तैकसर्वतायान्तु प्रत्यक्षत एव भिन्नानेकैकसर्वताया दर्शनात् प्रत्यक्षविरोधो ग्रहणभेदादनुमानविरोधः, त्वदुक्तास्मदुक्तैकार्थ्याभावे भेदाभ्युपगमात् स्ववचनाभ्युपगमविरोधो लोके घटपटादिभेदप्रतीतेर्लोकविरोधः, अविकल्पशब्दार्थाद्विकल्पव्यवहारा -ङ्गीकरणादभ्युपगमविरोधः, असिद्धादिहेतुता च, न घटाद्यवस्थाऽभेदावृक्षादिदृष्टान्तः।