________________
९४
द्वादशारनयचक्रे
तथा युगपदेव पश्यतां विश्वश्वनामर्हतां प्रवचने कालज्ञानमवितथं दृश्यते, अद्यतनेऽपि केषुचित् पुरुषेषु । अतिसौक्ष्म्याच्चास्य तज्ज्ञानाभिमुखानां कचिद्वचनविसंवदनमपि दुरुपलक्ष्यत्वात्, छद्मस्थानां ज्ञेयानन्त्यादज्ञानबहुत्वाज्ज्ञान- परिमितत्वाच्च ।
तथा च
'केसिं णिमित्ता नियया भवंति केसिं च ण विप्पडिएति णाणं', अत एव साशङ्कं मत्वाऽऽहुरन्ये प्रसह्य यथा 'कालः पचति' इत्यादि । ये पुनर्विनिश्चितधियस्ते प्रसह्येवं वदन्ति तद्यथा
‘काल एव हि भूतानि कालः संहारसम्भवौ। स्वपन्नपि स जागर्त्ति कालो हि दुरतिक्रमः ॥' इति ।
अथ स्वभाववाद:
ननु तैः सर्वैर्वादैः स्वभाव एव भवतीति भाव्यते, द्रव्यार्थ प्रसवात्, यत् पुरुषादयो भवन्ति स तेषां भावः, यथा सर्वे भावाः स्वेन भावेन भवन्ति स तेषां भाव इति वचनात् येन येन भावेन यो भवति स तस्य भावस्तत्त्वम्, ततश्च तत्र ते भवन्तीति ते कर्त्तृत्वमनुभवन्ति, ज्ञानस्वातन्त्र्यनियमवर्त्तनात्मकं तत्त्वमिति वदद्भिः स स स्वभाव एव परिगृहीतो भवतीति कारणान्तरपरिकल्पना व्यर्था ।
भवनस्य
तथा च स्वभावे सर्वस्वभावात्मनि भवति कर्त्तरि सिद्धे के ते पुरुषादयः? किं तैर्विना स्वभावस्य न प्रतिप्राप्तं कार्यम्?
स्यान्मतं तेषां स्वो भाव इति तानपेक्षत इति तदयुक्तम्, तेषामपि हि स्वत्त्वं स्वभावापादितमेव, ते ह्यात्मानः स्वे, तद्भावः