SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ इति कारिकया लेखकेन निजगुरुनामपुरस्कारेण तच्छिष्यतया निजपरिचयः कारितः, परं स टीकायाः स्वयं निर्मातृत्वेन वा तत्प्रतिलिपिकारकत्वेन वा निजं शापयतीति न निर्णेतुं शक्यं यावदन्यं बलवत्प्रमाणोपलम्भम्। टीकायामस्यां क्वचित् पर्यायभड्ग्याऽन्यान्यशब्दोपादानेन, कुत्रचिञ्च भावार्थस्यैवोल्लेखेन प्राकृतग्रन्थमक्षरशो जिज्ञासूनां मा भूद् निराशा; इति तदर्थपर्यवसायिनी मूलानिम्नभागे संस्कृतच्छायामहमकार्षम् , टीकायामपि क्वचनापतितानां प्राकृतभाषोल्लेखानामप्यवबोधाय तच्छायां विरचय्य तत्तत्पृष्ठानामधोभागेषु समयोजयम् । प्रा. शासे, एतेन प्राकृतभाषामजानतामवश्यं कश्चिल्लाभो भविष्यतीति । ___ ग्रन्थस्यास्यादर्शपुस्तकत्रयं हस्तलिखितं वाराणसेयश्रीकुशलचन्द्रगणिबृहत्पुस्तकालयाद मण्डलाचार्यश्रीनेमिचन्द्रसूरिद्वारा प्राप्तम्, इति कृतज्ञोऽस्मि तेषाम् । आदर्शपुस्तकेषु तेषु १ टीकया विभूषितम्, प्रायः शुद्धम्, त्रयोदशपत्रात्मकम् , लेखनसमयाद्युल्लेखरहितमप्यनुमानतः किञ्चित्प्राचीनं च । . २ मूलमात्रम् , गूर्जरभाषार्थेनान्वितम् , नातिशुद्धम् , अष्टादशपत्रात्मकम् , प्रान्ते एतदुल्लेखविराजितं च___ "संवत् १६६८ वर्षे जेठवदि ६ दिने शुक्रवारे सेरगढ स्थाने ॥ श्रीखरतरगच्छाधीश्वर श्रीजिनहंससूरीश्वरशिष्य श्रीपुण्यसागरमहोपाध्याय शिष्य श्रीपदमराजोपाध्याय शिष्य पं० ज्ञानतिलकगणि शिष्य पं० पूर्णसिंहमुनिना लिपीकृतं ॥ श्रीः॥" ३ मूलमात्रम्, शुद्धप्रायम्, अन्यैरपि प्रसिद्धप्रायैर्बहुभिलघुग्रन्यैः सहितमेकत्र पुस्तके संयोजितं चेति । एवं त्रिभिरादशैंः कृतसाहाय्येऽप्येतत्संशोधनकर्मणि याः काश्चन दृष्टिदोषभवा वा मतिमान्द्यनिबन्धना वा अशुद्धयो भवेयुः, प्रकृतिकृपा, लवः, कृपालवमाधाय मयि, संशोधयन्तु ता इति प्रार्थये । अन्ते, प्राचीनजैनग्रन्थोद्धारैकलक्ष्याया अस्या ग्रन्थमालाया उत्पादकस्यानल्पगुणगणविभूषितस्य साधुश्रेष्ठस्य श्रीप्रतापमुनेर्गुरुभ्योऽप्रतिमप्रतिभासौजन्यादिगुणाकरेभ्यः श्रीजयमुनिभ्यः, येऽत्र कार्ये निजोपदेशद्वारा बहु बहु साहाय्यमन्वतिष्ठन, सहस्रशः साधुवादान् वितरामि, विशपयामि च साग्रहं तान् भूयो भूयस्तथैव साहाय्यमनुष्ठाय निजप्रगुरुनामाङ्कितां ग्रन्थमालामिमामुन्नतिपथे पथिकीकर्तुम् । कलिकाता विक्रमसं.१९७३ भाद्रपदशुक्ला प्रतिपत् । हरगोविन्दः।
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy