SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सहिसयपयरणं । २३ [ यथा का अपि सुकुलवध्वः शीलं मलिनयन्ति लान्ति कुलनाम । मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा सुगुरुसंबन्धित्वम् ॥] यथा काश्चित्, पुंस्त्वं प्राकृतत्वात्, कुलवध्वःशीलं गुप्ताङ्गदर्शनपरपुरुषासंभाषणादिकं मलिनयन्ति खण्डयन्ति, लान्ति च कुलनाम; एवं मिथ्यात्वमाचरन्तोऽपि वहन्ति तथा तेन दृष्टान्तेन सुगुरुसत्कत्वं 'वयममुकस्य सुगुरोः शिष्याः' इति ॥७२॥ उस्सुत्तमायरंतवि ठवंति अप्पं सुसावगत्तम्मि । ते रुद्दरोरघत्थवि तुलंति सरिस धणड्ढेहिं ॥७३॥ [ उत्सूत्रमाचरन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे । ले रौद्ररौरग्रस्ता अपि तोलयन्ति सदृशं धनाढ्यैः ॥ ] प्रविधिना धर्म कुर्वन्तोऽपि स्थापयन्त्यात्मानं सुश्रावकत्वे ये, ते रौद्रदारिद्रयपीडिता अपि तोलयन्ति गणयन्ति सहशमात्मानं धनाढ्यैः ॥. किवि कुलकमम्मि रत्ता किवि रत्ता सुद्धजिणवरमयम्मि । इय अंतरम्मि पिच्छह मूढा नायं न याति ॥७४॥ [ केऽपि कुलक्रमे रक्ताः केऽपि रक्ताः शुद्धजिनवरमते । इत्यन्तरे पश्यत मूढा न्यायं न जानन्ति ॥ ] केऽपि निर्विवेकाः कुलक्रमे रक्ताः, केऽपि च लघुकर्माणो रक्ताः शुद्धजिनवरमते, इत्यन्तरे विशेषे विवेक्यविवेकिनोः सत्यपि पश्यत कौतुकं मूढा न्यायं परिच्छेद्यवस्तुनि निश्चयं न जानन्ति ॥७॥ संगोवि जाण अहिओ तेसिं धम्माई जे पकुव्वंति । मोत्तूण चोरसंग करिति ते चोरियं पावा ॥७॥ [ सङ्गोऽपि येषामहितस्तेषां धर्मान् ये प्रकुर्वन्ति । मुक्त्वा चौरसङ्गं कुर्वन्ति ते चौरिकां पापाः ॥] सङ्गोऽपि येषामहितश्चौरपल्लीवासिवणिग्वत् , तेषां धर्मान् चामुण्डार्चादीन् ये प्रकुर्वन्ति ते मुक्त्वा चौरसङ्गं कुर्वन्ति चौरिकां चौर्य पापिनः । जत्थ पसुमहिसलक्खा पव्वे हम्मंति पावनवमीए। पूयंति तंपि सड्ढा हा! हीला वीयरायस्स ॥७६॥ [ यत्र च्छागमहिषलक्षाः पर्वणि हन्यन्ते पापनवम्याम् । पूजयन्ति तदपि श्राद्धा हा ! हेला वीतरागस्य ॥].,
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy