SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २० सट्ठियपयरं । [ इतरेषामप्युपहासस्तदयुक्तं भ्रातः ! कुलप्रसूतानाम् । एष पुनः कोऽप्यग्निर्य हास्यं शुद्धधर्मे ॥ ] . इतरेषामपि हास्यार्हाणामुपहासं ( ? सः ) क्रियते, तदयुक्तं भ्रातः ! कुलजानाम् । एष पुनः कोऽप्यग्निरिव, स्त्रीत्वं प्राकृतत्वात्, यद् हास्यं शुद्धधर्मेऽप्युल्लण्ठोक्तिभणनम् ॥ ६१ ॥ दोसो जिणिदवयणे संतोसो जाण मिच्छपावम्मि । ताणपि सुद्धहियया परमहियं दाउमिच्छंति ॥ ६२॥ द्वेषो जिनेन्द्रवचने संतोषो येषां मिथ्यात्वपापे । तेषामपि शुद्धहृदयाः परमहितं दातुमिच्छन्ति ॥ ] द्वेषोऽर्हदुक्ते वचने, संतोषस्तुष्टिर्येषां मिथ्यात्वपापे, तत्कारिषु प्रीतिकरणात् तेषामपि शुद्धहृदयाः परमहितं ज्ञानादिरूपं मुक्तिमार्ग दर्शयितुं दातुं वेच्छन्ति ॥ ६२ ॥ अहवा सरलसहावा सुयणा सव्वत्थ हुंति अवियप्पा | छतविसभराणवि कुणति करुणं दुजीहाणं || ६३ ॥ [ अथवा सरलस्वभावाः सुजनाः सर्वत्र भवन्त्यविकल्पाः । मुञ्चद्विषभरेष्वपि कुर्वन्ति करुणां द्विजिह्वेषु ॥ ] अथवा, सरलस्वभावाः सन्तः सर्वत्र भवन्त्यविकल्पास्तुल्यमतयः शत्रौ मित्रे च हितकरणे । अत एव च्छर्दद्विषभराणामुद्गिरगरलभाराणामपि कुर्वन्ति करुणां द्विजिह्वानां सर्पाणामसतां चोपरि ॥६३॥ गिहवावारविमुक्के बहुमुणिलोएवि नत्थि सम्मत्तं । आलंबणनिलयाणं सड्ढाणं भाय ! किं भणिमो ? || ६४ ॥ [ गृहव्यापारविमुक्ते बहुमुनिलोकेऽपि नास्ति सम्यक्त्वम् । आलम्बननिलयानां श्राद्धानां भ्रातः ! किं भणामः ? ॥ ] " गृहव्यापारेण कृषिवाणिज्यादिना विमुक्ते बहुसुनिलोके, प्रास्तामन्यत्र नास्ति सम्यक्त्वं तत्त्वश्रद्धानम्, स्वस्वमतस्थापकेषु गुणिगणदूषकेषु सूत्रोत्तीर्ण ( ? ) भाषकेषु सम्यक्त्वाभावात् । तर्हि आलम्बननिलयानां श्राद्धानां भ्रातः ! सम्यक्त्वनास्तित्वे किं भणामः, पुत्रकलत्रादिरक्षायै भूतप्रेतच्छलादौ मिथ्यात्वकरणात् तेषां केषाञ्चित् ॥ ६४॥
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy