SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सहिसयपयरणं । नामापि, प्रास्तां वन्दन-संसर्गादिः तस्य कुतीथिकादेरशुभं पापं, येन निर्दिष्टानि मिथ्यात्वपर्वादीनि, येषां पर्वणमनुषङ्गात् प्रसङ्गाद धर्मिहामपि भवति पापमतिः असत्यभाषण-धूलिक्षेप-काष्ठचौर्यादिरूपा ॥२७॥ मज्झट्टिई पुण एसा अणुसंगेणं हवंति गुणदोसा । उक्किटपुनपावा अणुसंगेणं न घिप्पंति ॥ २८ ॥ [ मध्यस्थितिः पुनरेषाऽनुषङ्गेण भवन्ति गुणदोषाः । उत्कृष्टपुण्यपापा अनुषङ्गेण न गृह्यन्ते ॥] मध्यस्थानां स्थितिमर्यादा पुनरेषा । केत्याह-अनुषङ्गेण संसर्गेण भवन्ति गुणदोषाः, भावुकत्वात्तेषाम् । उत्कर्षप्राप्तसुकृतदुष्कृता अनुषड्रेण न गृह्यन्ते-संसर्गात् तेषां गुणदोषो न स्त इति, काचमध्यस्थवै. इर्यमणिवत्, इतुवाटस्थनलस्तम्भवञ्च ॥२८॥ अइसयपावियपावा धम्मियपव्वेसु तोवि पावरया । न चलंति सुद्धधम्मा धन्ना किवि पावपव्वेसु ॥ २९ ॥ [अतिशयप्रापितपापा धार्मिकपर्वसु ततोऽपि पापरताः । न चलन्ति शुद्धधर्माद्धन्याः केऽपि पापपर्वसु ॥] 'तोवि' इतिशब्दोऽत्र संबध्यते, तेन यस्मादुत्कृष्टपुण्यपापाः संसर्गेण न गृह्यन्ते, 'तो' तस्मादतिशयमाधिक्यं प्रापितं पापं यैस्ते धार्मिकाणां पर्वस्वपि पापरता आरम्भाद्यासक्ता भवन्ति । तथा, न चलन्ति शुद्धधर्माद्धन्याः केऽप्यतिशयप्रापितधर्माणः पापपर्वस्वपि' इति गम्यम् ॥२६ लच्छीवि हवइ दुविहा एगा पुरिसाण खवइ गुणरिद्धी। एगा य उल्लसंती अपुनपुनाणुभावाओ ॥ ३०॥ [ लक्ष्मीरपि भवति द्विविधैका पुरुषाणां क्षपयति गुणीः । एका चोल्लसन्ती अपुण्यपुण्यानुभावात् ॥] पर्ववल्लक्ष्मीरपि द्विधा भवति, एकाऽशानकष्टलब्धा पुरुषाणां क्षपयति ज्ञानादिगुणानामृद्धिं समृद्धिम् । तथा, एका च सत्पात्रदानादिजाता लक्ष्मीरुल्लसन्ती वृद्धिं गच्छन्ती पुंसां गुणर्द्धि धनसार्थवाहशालिभद्रादीनामिव 'पुग्णाति' इति गम्यम् । कुतः ? । अपुण्य-पुण्ययोरनुभावः प्रभावस्तस्मात् ॥३०॥
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy