SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सहिसयपयरणं । बहवो गुणा निष्ठुरक्रियाकरणादयः, विद्याश्च श्रुताभ्यासरूपाः, तासां निलय इव, ईदृगपि, उत्सूत्रभाषी मोक्तव्य एव । यथा विषापहारमणियुक्तोऽपि, 'हुः' अवधारणे, स चाने योजयिष्यते, विषधरो विघ्नकर एवेति ॥ १८॥ सयणाणं वामोहे लोया घिपति अत्थलोहेण । नो धिप्पति सुधम्मे रम्मे हा ! मोहमाहप्पं ॥ १९ ॥ [ स्वजनानां व्यामोहेन लोका गृह्यन्तेऽर्थलोभेन । नो गृह्यन्ते सुधर्मेण रम्येण हा ! मोहमाहात्म्यम् ॥ ] स्वजनानां स्वज्ञातीनां व्यामोहेन, तृतीयार्थे सप्तमीयम्,. लोका गृह्यन्ते स्वायत्तीक्रियन्ते । व्यामोहोऽत्र 'अस्मत्सगीनोऽयम् (?), मत्स्वजातेर्वा एत एवाहताः' इत्यादिः । अनुक्तस्य चस्येहाक्षेपादर्थलोभेन च गृह्यन्ते । अर्थोऽत्र प्रयोजनम् । एते ह्यस्माकं मन्त्रतन्त्रादिनोपकारं कुर्वन्तीति । परं नो गृह्यन्ते सुधर्मेण रम्येन रमणीयेन । यदुक्तम्;--"धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशो-" इति वचनात् । 'हा' इति खेदे । मोहमाहात्म्यम् ॥ १६ ॥ गिहवावारपरिस्समखिन्नाण नराण वीसमणठाणं । एगाण होइ रमणी अन्नेसि जिणिंदवरधम्मो ॥ २०॥ [गृहव्यापारपरिश्रमखिन्नानां नराणां विश्रमणस्थानम् । एकेषां भवति रमण्यन्येषां जिनेन्द्रवरधर्मः ॥] गृहं भार्या, उपलक्षणत्वात् पुत्रादिकुटुम्ब तन्निमित्तं व्यापारः कृषिवाणिज्य सेवादिको वित्तोपार्जनलक्षणस्तेन यः परिश्रमः खेदस्तेन खिनानां नराणां विश्रामस्थानमेकेषां केषाञ्चिद् भवति रमणी “वक्त्रं पूर्णशशी सुधाऽधरलता-" इतिवादिनाम् ; तथा, अन्येषां "सल्लं कामा विसं कामा" इतिवादिनां जिनेन्द्रवरधर्मः ॥२०॥ तुल्लेवि उयरभरणे मूढअमूढाण पिच्छसु विवागं । एगाण नरयदुक्खं अन्नेसि सासयं सोक्ख ॥ २१ ॥ [ तुल्येऽप्युदरभरणे मूढामूढानां पश्य विपाकम् । एकेषां नरकदुःखमन्येषां शाश्वतं सौख्यम् ॥] १ शल्यं कामा विषं कामाः।
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy