SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः। ___टीका-यद्यस्माद्भवति । किं तत् , मुक्त्यङ्गं मोक्षसाधनं । किं, अहिंसैव द्रव्यभावहिंसाविरमणमेव । तत्तस्मात् । उज्झेत् त्यजेत् । कोऽसौ, उपासकः श्रावकः। किंविशिष्टो, मुमुक्षुः बुभुक्षोर्नास्ति नियम इति भावः । कम्, एकाक्षवधमपि त्रसहिंसामिव स्थावरहिंसामपि । यः किं, यः एकाक्षवधः । न स्यात् । किंविशिष्टः, अवयंभोगकृत् अवानां वर्जयितुमशक्यानामावानां बा' अर्जनीयानां भोगानां सेव्यार्थानां कारणम् ॥ ११ ॥ सांकल्पिकवधं नियमयति ग्रहवासो विनाऽऽरम्भान चारम्भो विना वधात् । त्याज्यः स यत्नात्तन्मुख्यो दुस्त्यजस्त्वानुषङ्गिकः ॥१२॥ टीका न भवति । कोऽसौ, गृहवासो गेहाश्रमः । कथं, विना । कस्मात् आरम्भात् कृष्यादिजीवनोपयात्। तथा न भवति । कोऽसौ, आरम्भः । कथं विना । कस्मात् , वधात् प्राण्युपमर्दनात् । यत एवं तत्तस्मात्त्याज्यः। कोऽसौ, स वधः । किंविशिष्टो, मुख्यः इमं जन्तुमासाद्यार्थित्वेन हन्मीति सांकल्पप्रभवः । यत्नात् अवधानात् । तुर्विशेषे । तेन भवति । कोऽसौ, आरम्भः ।। किंविशिष्टो,दुस्त्यजः त्यक्तुमशक्यः। किविशिष्टः, आनुषङ्गिकः कृप्याद्यनुषङगे जातः कृष्यादौ क्रियमाणे सम्भवन्निय॑थः ॥ १२॥ प्रयत्नहेयां हिंसामुपदिशति दुःखमुत्पद्यते जन्तोर्मनः संक्लिश्यतेऽस्यते । तत्पर्यायश्च यस्यां सा हिंसा हेया प्रयत्नतः ॥ १३ ॥ १ जे तसकाया जीवा पुम्वुद्दिष्ठा ण हिंसिदव्वा ते । एगिदियावि णिक्कारणेण पढमं वदं थूलं ॥ स्तोकैकेन्द्रियघाताद् गृहिणां सम्पन्नयोग्यविषयाणाम् । शेषस्थावरमारणविरमणमपि भवति कर्तव्यम् । भूपयःपवनानीनां तणादीनां च हिंसनम । यावत्प्रयोजन स्वत्यं तावत्कुर्यादजन्तुजित् ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy