SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । __ अथ प्रतिपाद्यानुरोधाद्धर्माचार्याणां सुत्राविरोधेन देशनानानात्वोपलम्भाद्भग्यन्तरेणाष्टमूलगुणानुद्देष्टुमाह___मद्यपलमधुनिशाशनपश्चफलीविरतिपश्चकाप्सनुती। जीवदया जलगालनमिति च क्वचिदष्टमूलगुणाः ॥ १८ ॥ टीका-वर्तन्ते । के, मूलगुणाः । कति, अष्टं । क्व, क्वचित् शास्त्र । कथं, मद्येत्यादि, पञ्चफली पञ्चानां फलानां समाहारः पिप्पलादिफलपञ्चकमित्यर्थः, तद्विरतिरेक एवात्र मूलगुणः, अप्तनुतिः त्रिकालदेववन्दना, मद्यं च पलं च मधु च निशाशनं च पञ्चफली च ताभ्यः पञ्चभ्यो विरतस्यतासां पञ्चक, तच्चाप्तनुतिश्च ते द्वे, जीवदया अनुकम्पा, जलगालनं चेति ॥ १८ ॥ प्रकृतमुपसंहरन् सार्वकालिकसम्यक्त्वशुद्धिपूर्वकमद्यादिविरतिकृतां कृतोपनीतीनां ब्राह्मणक्षत्रियविशां जिनधर्भश्रुत्यधिकारितामा विष्कर्तुमाह यावज्जीवमिति त्यक्त्वा महापापानि शुद्धधीः । - जिनधर्मश्रुतेर्योग्यः स्यात्कृतोपनयो द्विजः ॥ १९ ॥ टीका-स्याद्भवेत् । कोऽसौ, द्विजः द्विर्जातो मातृगर्भे जिनसमयज्ञानगर्ने चोपादात् द्विजो ब्राह्मणक्षत्रियविशामन्यतमः ‘त्रयो वर्णा द्विजातय ' इति वचनात् । किंविशिष्टः, कृतोपनयः कृतो यथावि युपकल्पित उपनयो मौजीबन्धादिलक्षणोपनीतिक्रिया यस्य स तथोक्तः । किवि शिष्टः स्यात्, योग्योऽधि कारी। कस्या, जिनधर्मश्रुतेः वीतरागसर्वज्ञोपदिष्टस्य धर्मस्य श्रुतिः श्रवण शास्त्र वा उपासकाध्ययनादि तस्याः । किं कृत्वा, शुद्धधीः सम्यक्त्व विशुद्धबुद्धिः सन् । त्यक्त्वा । कानि, महापापानि महद्विपुलमनन्तसंसारकारणं पापं येभ्यस्तानि मद्यपानादीनि प्राक्प्रबन्धेनोक्तानि । कथं यावज्जीवं जीविताववधि । कथे, इति अनेन प्रकारेण ॥ १९॥ १ अष्टावनिष्टदुस्तरदुरितायतनान्यमान परिवर्ण्य । जिनधर्मदेशनाया भवन्ति पात्राणि शुद्धधियः ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy