SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । २७ अन्नमांसयोस्तुल्येऽपि, न च प्राणिकायत्वाद्धौंन्यस्यापि मांसत्वमुपकल्प्य, यो यः प्राणिकायः स स मांसमिति व्याप्तेरभावात् । अन्यथा वृक्षत्वादशोकादीनामपि निम्बत्वकल्पनाप्रसङ्गात् । यत: भोग्या अनुभवनीया ! काऽसौ, जायैव,न पुनरम्बिका माता भोग्या । कैजनैः लोकैः । क सति, स्त्रीत्वाविशेषेऽपि भार्यामात्रोः स्त्रीत्वे तुल्येऽपि ॥ १० ॥ अथ क्रमप्राप्तान्मधुदोषानाहमधुकृवाताघातोत्थं मध्वशुच्यपि बिन्दुशः ।। खादन बनात्यघं सप्त-ग्रामदाहाहसोऽधिकम् ॥ ११ ॥ टीका-बध्नाति आत्मना योजयति । कोऽसौ, पुमान् । किं तत् अघ पापं । कियत् अधिकं अतिरिक्तं। कस्मात् सप्तंग्रामदाहांहसः ग्रामसप्तकदाहकपातकात्। किं कुर्वन् , खादन् भक्षयन् । किं तत् , मधु क्षौद्र। किंमात्रमपि बिन्दुशः बिन्दु मात्रमपि। किंविशिष्टं, मधुकृतां मक्षिकाभ्रमरमशकादीनां मधुकरप्राणिनां व्रातः सङ्घस्तस्य घातो नाशस्तस्मादुत्था उत्पत्तिर्यस्य तन्मधुकृहातघातोत्थं । पुनः १ मांसं जीवशरीर जीवशरीर भवेन्न वा मांसम् । ____ यद्वनिम्बो वृक्षो वृक्षस्तु भवन्न वा निम्बः ॥ शुद्धं दुग्धं न गोमासं वन्तुवैचित्र्यमीदृशं । विषघ्नं रत्नमाहेयं विषं च विपदे यतः ॥ हेयं पलं पयः पयं समे सत्यपि कारण । विषद्रोरायुषे पत्र मूलं तु मृतये मतम् ।। २ ग्रामसप्तकविदाहिरेफसा तुल्यता न मधुभक्षिरेफसः । तुल्यमञ्जालजलेन कुत्रचि-निम्नगापतिजलं न जायते ॥ यश्चिखादिषति सारघं कुधी-मक्षिकागणविनाशनस्पृहः । पापकर्दमनिषेधनिम्नगा तस्य हन्त करुणा कुतस्तनी ? ।। स्वयमेव विगलितं यद् गहीतमथवा बलेन निजगोलात् । तत्रापि भवति हिंसा तदाभयप्राणिनां घातात् ॥ . ३ अनेकजंतुसङ्घात निघातनसमुद्भवम् । ___ जगुप्सनीयं लालावत्क: स्वादयति माक्षिकम् ॥ माक्षिकागर्भसम्भूत-बालाण्डकानपीडनात् । जातं मधु कथ संत: सेवंते कललाकृति। एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमंतिम धूच्छिष्टं तदनंति न धार्मिका:
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy