SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सप्तमोध्यायः । १९५ दानादिकं पोप्यं च गृहिणीमातृपित्रादि । कुत एतदित्याह-हि यस्माद्वर्तते। काऽसौ, सा सूत्रोक्ता एषा विधीयमाना सकलदत्तिरन्वयदत्त्यपराभिधाना । कीदृशी, पथ्या पथोऽनपेता रत्नत्रयानुगतेत्यर्थः । केषां, शिवार्थिनां मुमुक्षूणां । कथं, परं अत्यर्थम् ॥ २७ ॥ विदीणमोहशार्दूलपुनरुत्थानशकिनाम् ।। त्यागक्रमोऽयं गृहिणां शक्त्याऽऽरम्भो हि सिद्धिकृत् ॥२८॥ टीका-वर्तते । कोऽसौ, अयं प्रकृतः त्यागक्रमः शनैः शनैबेहिरन्तःसङ्गवर्जनं । केषां, गृहिणाम् । किंविशिष्टानां, विदीर्णेत्यादि-विदीर्णस्तत्तन्निठासौष्ठवेन भिन्नः स चासौ मोहशार्दूलश्च ममकारव्याघ्रः तस्य पुनरुत्थानं भूयो निहन्तुमभियोगस्तं शङ्कन्ते विकल्पयन्त्यभीक्ष्ण मिति तच्छकिनस्तेषां । अर्थसमर्थनार्थमाह-हि यस्माद्भवति। कोसौ, आरम्भ ऐहिकमामुत्रिकं वाभिमतार्थ साधयितुमुपक्रमः । कया, शक्त्या स्वसामर्थ्येन क्रियमाणः । किंविशिष्टो भवति, सिद्विकृत् अभिप्रेतार्थसाधकः ॥ २८ ॥ एवं व्युत्सृज्य सर्वस्वं मोहाभिभवहानये । किश्चित्कालं गृहे तिष्ठदौदास्यं भावयन्सुधीः ॥ २९॥ टीका-तिष्ठदासींत । कोऽसौ, सुधीः तत्त्वज्ञानसम्पन्नः । क, गृहे । के कालं । कियन्त, किञ्चित्स्तोकं । किं कुर्वन्, भावयन्नभ्यस्यन् । तदौदास्यमुपेक्षां । कस्मै, मोहेत्यादि । मोहेन ममत्वेन अभिभव उपेक्षाशैथिल्यं येन पृष्टो वा आरम्भादौ पुत्रादेरनुमतिं दास्यते तस्य हानये निराकरणार्थ। किं कृत्वा,व्युत्सृज्य विशेषेण विधिपूर्व वा त्यक्त्वा । किं तत्, सर्वस्वं चेतनमचेतनं च स्वं वस्तु।कथं,एवमित्थं । किञ्चित्कालमित्यनेन सिताम्बरपरिकल्पितं प्रतिमासु कालनियम निराकरोति। तद्ग्रन्थानुवादस्तु ज्ञानदीपिकायां द्रष्टव्यः । गृहे तिष्ठेदित्यनेन स्वांगाच्छादनार्थ वस्त्रमात्रधारणममूर्छामस्य लक्षयति । तेन विना
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy