SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ षष्ठोध्यायः। किं कृत्वा, र :र्य सहक प्रीणयित्वा । कानि, पात्राणि प्रागुक्तलक्षणानि। कथं, ततस्तदनन्तरं । कम्मात् , शक्तिभक्यनुसा तः शक्तिभक्योरनतिक्रमेण । न केवलं पात्राणि सन्तर्प्य सर्वानप्या श्रितांश्च तिरश्वोऽपि स्वयं परिगृहीतान् सन्तर्प्य सन्तोष्येत्यर्थः । कालविकोषोपदेशेन च माध्यान्हिकदेवपूजाभोजनयोर्नास्ति कालनियम इति बोधयति । तीव्रबुभुक्षायां हि मध्याह्नादर्वागपि गृहीतप्रत्याख्यानं तिरयित्वा देवपूजा दिपूर्वकं भोजनं कुर्वन् न दुष्यति॥२४॥ . लोकद्वयाविरोधीनि द्रव्यादीनि सदा भजेत् । । यतेत व्याध्यनुत्सत्तिच्छेदयोः स हि वृत्तहा ॥ २५ ॥ टीका--भजेत् सेवेताय । कानि, द्रव्यादीनि द्रव्यक्षेत्रकालभावकर्मसहायादीनि। किंविशिष्टानि, लो मद्वया विरोधीनि इहलोके परलोके च पुरुषार्थानुषघातकानि । क, सदा सर्वदा तथा यतेत तात्पर्य कुर्यात् । कयोः, व्याध्यनुयत्तिच्छेदयोः व्याधेः ज्वरादिरोगस्पनु त्तावप्रादुर्भावे छदे च निवर्तने । कुत इत्याह-हि यस्मात् भवति । कोऽसौ, स व्याधिः । कथम्भूतो, वृत्तहा मंयमस्य हन्ता ॥ २५ ॥ तदुत्तरकरणीयनिर्णयार्थमाहविश्रम्य गुरुसब्रह्मचारिश्रयोऽर्थिभिः सह । जिनागमरहस्यानि विनयेन विचारयेत् ॥ २६ ॥ टीका- ततश्च विचारयेत् इदमित्थं भवति न वेति सम्प्रधारयेदसौ। गुरुमुखात् श्रुतान्यपि शास्त्ररहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिछानि भवन्तीति मनसि कृत्वा । कानि. जिनागमरहस्या नि अर्हत्सिद्धान्तस्यैदम्पर्याणि । केन, विनयेन प्रश्रयेण । कथं, सह । कैः गुर्वादिभिः । किं कृत्वा, विश्रम्य भोजनश्रममपनीय । गुरवोऽत्र शास्त्रोपदेष्टारः । सब्रह्मचारिणः सहाध्यायिनः । श्रेयोऽर्थिन आत्महितकामाः ॥ २६ ॥ ततश्च सायमावश्यकं कृत्वा कृतदेवगुरुस्मृतिः।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy