________________
१५२
सागारधर्मः।
उच्चस्थानं स्वगृहान्तः स्वीकृतयति नीत्वा निरवद्यानुपहतस्थाने उच्चासन निवेशनं ॥ अप्रिक्षालनं च । अर्चा तथाक्षालितांप्रेः संयतस्य गन्धाक्षतादिभिः पादपूजनं । आनतिः तथापूजितसंयतस्य पञ्चाङ्गप्रणामकरणं । एते पञ्च । तथा योगशुद्धयो मनोवाक्कायप्रसत्तयस्तिस्रः । एका चान्नशुद्धिः । तत्र मनःशुद्धिरातरौद्रवर्जनं । वाक्शुद्धिः परुषकर्कशादिवचोवर्जनं । कायशुद्धिः सर्वत्र संवृताचारतया प्रवर्तनं ॥ अन्नशुद्धिः चतुदशमलरहितस्याहा. रस्य यतनया शोधितस्य हस्तपुटेऽर्पणम् ॥ ४५ ॥ देयद्रव्यविशेषनिर्णयार्थमाहपिण्डशुद्ध्युक्तमन्नादिद्रव्यं वैशिष्टयमस्य तु ।
रागाद्यकारकत्वन रत्नत्रयचयाङ्गता ॥ ४६ ॥ टीका-भवति । किं तत्, द्रव्यमर्थाद्देयं । किंविशिष्टमन्नादि आहारोषधावासपुस्तकपिच्छिकादि। किंविशिष्टं तत्, पिण्डद्ध्युशुक्तं पिण्डशुद्धौ पिण्डशुद्धिप्ररूपणार्थे पूर्वमनगारधर्मस्कन्धे पञ्चमाध्याये प्रतिपादितं । अस्य तु यथोक्तदेयद्रव्यस्य पुनर्भवति । किं तत्, वैशिष्टयं विशेषः । किं तत्, रत्नत्रयचयाङ्गता सम्यग्दर्शनादिवृद्धिकारणत्वं । केन, रागाद्यकारकत्वेन रागद्वेषासंयममददुःखचयाद्यजनकत्वेन ॥ ४६॥ दातृलक्षणं तद्वैशिष्टयं चाह
नवकोटीविशुद्धस्य दाता दानस्य यः पतिः ।
भक्तिश्रद्धासत्चतुष्टिज्ञानालोल्यक्षमागुणः ।। ४७॥ टीका-स दाता भण्यते पूर्वाचार्यः । यः किं, यो भवति। किंविशिष्टः, पतिः स्वामी प्रयोक्ता। कस्य,दानस्य देयस्य दत्तिक्रियाया वा । किविशिष्टस्य,नवकोटीविशुद्धस्य नवकोट्य मनोवाकायैः प्रत्येकं कृतकारितानुमतानि।अथवा देयशुद्धिस्तकृते च दातृ रात्रशुद्धी,दातृशुद्धिस्तत्कृते च देयपात्रशुद्धी,पात्रशुद्धिस्त कृते च देयदातृशुद्धी चेत्यार्पोक्ताः। नवकोटीभिर्विशुद्धमकृतपिण्डशुद्ध्युक्तदोषसम्पर्क आर्पोक्तं तत्पक्षे तु नवकोट्यो विशुद्धाः सुप्रसिद्धा यत्रेति विग्रहः ।