________________
पंचमोध्यायः ।
एतदेव श्लोकत्रयेण संगृहन्नाह
व्रतयेत्खरकर्मात्र मलान् पञ्चदश त्यजेत् । , वृत्ति वनाग्न्यनःस्फोटभाटकेर्यन्त्रपीडनम् ॥ २१ ॥ निर्लाञ्च्छनासतीपोषौ सरःशोषं दवप्रदाम् । विषलाक्षादन्तकेशरसवाणिज्यमङ्गिरुक् ॥ २२ ॥ इति केचिन्न तच्चारु लोके सावद्यकर्मणाम् ।
अगण्यत्वात्प्रणेयं वा तदप्यतिजडान् प्रति ॥ २३ ॥ टीका-व्रतयेत् प्रत्याख्यायाच्छ्रावकः । किं तत्, खरकर्म खरं क्रूरं प्राणि-- बाधकं कर्म व्यापारं । तथा त्यजेत् तद्रती। कान, मलान् कर्मादानसज्ञान् । कति, पञ्चदश वृत्तिमित्यादिना निर्दिष्टान् । क, अत्र खरकर्मत्रते । अत्र तावत् वृत्तिं जीविकां त्यजेत् । कैः, वनाग्न्यनःस्फोटभाटकैः वनं चामिश्च अनश्च स्फोटश्च भाटकं च तैः पञ्चभिः । तथा यन्त्रपीडनं त्यजेत् । तथा निर्लाञ्छनासतीपोषौ त्यजेत् निर्लाञ्छनं चासतीपोषश्चति द्वन्द्वः । तथा सरःशोषं त्यजेत् । तथा दवप्रदां दवदानं त्यजेत् । तथा विषादिवाणिज्यपञ्चकं त्यजेत् । किविशिष्टं, अङ्गिरुक् प्राणिबाधकं ।। ___ तत्र वनजीविका छिन्नस्याच्छिन्नस्य वा वनस्पतिसमूहादेविक्रयेण तथा गोधूमादिधान्यानां घरदृशिलादिना पेषणेन दलनेन वा वर्तनम् ॥१॥
अग्निजीविका अङ्गारजीविकाख्या षड्जीवनिकायविराधनाहेतुना अङ्गारकरणाद्यग्निकर्मणा जीवनं ॥ २॥ ___ अनोजीविका शकटजीविका शकटरथतच्चक्रादीनां स्वयं परेण वा निप्पादनेन वाहनेन विक्रयणेन वृनिर्बहुभूतग्रामोपमर्दिका गवादीनां च बन्धादिहेतुः ॥ ३ ॥
स्फोटजीविका उडादिकर्मणा पृथिवीकायिकाद्युपमर्दहेतुना जीवनं ॥४॥ भाटकजीविका शकटादिभारवाहनमूल्येन जीवनं ॥ ५॥ यन्त्रपीडाकर्म तिलयन्त्रादिपीडनं तिलादिकं च दत्वा तैलादिप्रतिग्रहणं.