________________
१३०
सागारधमः।
किं तत् , अग्न्यादि वन्हिघरट्टमुसलोलूखलादि। किमर्थ, पाकाद्यर्थ पचनपेषणकुट्टनादिनिमित्तं । क्क, दाक्षिण्याविषये परम्परव्यवहारविषयादन्यत्र ।।८। दुःश्रुत्यपध्यानयोः स्वरूपं परिहारं चाहचिसकालुष्यकृकामहिंसाद्यर्थश्रुतश्रुतिम् ।।
न दुःश्रुतिमपध्यानं नातरौद्रात्म चान्वियात् ॥ ९॥ टीका-नान्वियात् नानुवर्तयेत् प्रसङ्गवशादायातमपि तत्क्षणान्निवर्तयेदित्यर्थः । कोऽसौ, अनर्थदण्डव्रतार्थी । कां, दुःश्रुतिं । कीदृशी, चित्तेत्यादि। कामश्च मन्मथो हिंसा च प्राणातिपातः कामर्हिसे ते आदी येषां आरम्भादीनां ते कामहिंसादयोऽर्था अभिधेया येषां तानि कामहिंसाद्यर्थानि तानि श्रुतानि शास्त्राणि । तत्र कामशास्त्रं वात्स्यायनादि। हिंसाशास्त्रं लटका दिमतं। आरम्भपरिग्रहशास्त्रं वार्तानीतिः । साहसशास्त्रं वीरकथा। मिथ्यात्वशास्त्रं ब्रह्माद्वैतादि मतं । मदशास्त्रं वर्णानां ब्राह्मणो गुरुरित्या दिग्रन्थः । रागशास्त्रं वशीकरणादितन्त्रं । तेषां श्रुतिगकर्णनं उपलक्षणादर्जनाद्यपि । चित्तस्य मनसः कालुप्यं रागद्वेषाद्यावेशश्चित्तकालुष्य तत्करोतीति चित्तकालुष्यकृत् । सा चासौ कामहिंसाद्यर्थश्रुतश्रुतिश्च ताम् । न चान्वियादसौ । किं तत्, अपध्यानं अपकृष्टं ध्यानमेकाग्रचिंतानिरोधं । किंरूपं, आर्तरौद्रात्म आर्त ऋते दुःखे भवं। यदि वा अतिः पीडा यातना च तत्र भवं । रौद्र रोधयति अपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म। आर्त च रौद्रं च आतरौद्रे ते आत्मानौ स्वभावौ यस्य तदातरौद्रात्म आतेरौद्रविकल्पमित्यर्थः । न दुःश्रुतिमपध्यानमार्तरौद्रात्म चान्वियादिति पाठे तु-दुःश्रुति कामादिशास्त्रश्रवणलक्षणां, अपध्यानं च नरेन्द्रत्वखचरत्वाप्सरोविद्याधरीपरिभोगादिविषय, आर्त वैरिघाताग्निघातादिविषयं, रौद्रं वा नान्वियादिति व्याख्येयम् ॥ ९॥
प्रमादचर्यालक्षणं तत्त्यागं च श्लोकद्वयेनाह- .