________________
१२२
सागारधर्मः ।
अयोग्यश्वासावसंयमश्वायोग्यासंयमस्तस्य । कुतो हेतोः, मूर्छाङ्गत्वात् मोहो. दयनिमित्तत्वात् । यस्त्वसौ त्यक्तुमशक्यस्तत्त्यागविधिमाह-कृशयेत् स्वल्पीकुर्यात् । कं, तं बाह्यसङ्गं । किंविशिष्टमपि, त्यक्तुमशक्यमपि अशक्यवर्जनमपि। कथं, शनैः मनाक् समयपरिपाट्या कालक्रमेण परिग्रह सज्ञाया अनादिसन्तत्या प्रवर्तमानत्वेन सहसा तत्त्यागस्य कर्तुमशक्यत्वात् कृतस्यापि तद्वापनावशाद्भङ्गसम्भावनाच्चैतदुच्यते ॥ ६१ ॥ एतदेव प्रपञ्चयन्नाह
देशसमयात्मजात्याद्यपेक्षयेच्छां नियम्य परिमायात ।
वास्त्वादिकमामरणात्परिमितमपि शक्तितः पुनः कृशयेत् ।६२ टीका-परिमायात् परिमितं कुर्यात् । किं तत्. वास्त्वादिकं वास्तुक्षेधनधान्यद्विपदचतुष्पदशयनासनयानकुप्यभाण्डलक्षणं दशभेदं बाह्यग्रन्थं । किं कृत्वा, नियम्य सन्तोषभावनया निगृह्म । कां, इच्छां परिग्रहे तृष्णां । कया, देशेत्यादि देशो वास्यमानो जनपदः, समयः कालः, आत्मा स्वात्मा, जातिः वणिक्त्वा दिः, देशश्च समयश्च आत्मा च जातिश्च ता आदयो येषां स्वान्वयवयःपदव्यादीनां ते देशाढयस्तेषामपेक्षया तानाश्रित्येत्यर्थः । कथं परिभायात्, आमरणात् मरणावधि यावज्जीवमित्यर्थः । तथा कृशयेच्छावकः । किं, तत्परिमितमपि वास्त्वा दिकं । कथ, पुनः । कस्मात् , शक्तितः नैस्सङ्गयभावनया समुत्पन्नां स्वशक्तिमपेक्ष्येत्यर्थः ॥ ६२ ॥ परिग्रह वक्रमणित्या दूषयन्नाह---
अविश्वासतमोनक्तं लोभानलघृताहुतिः।।
आरम्भमकराम्भोधिरहो श्रेयः परिग्रहः ।। ६३॥ टीका-अहो आश्चर्य । श्रेयः सेव्यः पुंसां कल्याण वा। कोऽसौ, परिग्रहः । किंविशिष्टः, अविश्वासतमोनक्तं अविश्वास एव तमो यान्तं दुःखहेतुत्वात् तत्र नक्तं रात्रिस्तद्धेतुत्वादिति अविश्वासतमोनक्तं। तथा लोभ एवानलोऽग्निश्चित्तसन्तापकत्वात् तत्र घृताहुतिः सर्पिःप्रक्षेपः प्रदीपकत्वादिति लोभानलघृताहुतिः । तथा आरम्भमकराम्भोधिः आरम्भाः कृष्यादयस्त एव मकरास्त्रासातकनिमित्तत्वात् तत्र अम्भोधिः समुद्रः उत्पत्तिनित्यप्रवृत्तिनिमि