________________
त्रि पर्व -८- सर्ग-९] 63
तुभ्यमभ्यर्णमोक्षाय, समक्षाऽशेषवस्तवे । विविधर्द्धिनिधानाय, द्वात्रिंशायाऽर्हते नमः
हरिवंशः पवित्रोऽयं, पवित्रा भारती च भूः । यस्मिँश्चरमदेहस्त्व-मवातारीर्जगद्गुरो !
कृपाया एक आधारो, ब्रह्मणश्चैक मास्पदम् । ऐश्वर्यस्याऽऽश्रयश्चैक-स्त्वमेव त्रिजगद्गुरो !
भवतो दर्शनेनैवाऽ - तिमहिम्ना जगत्पते ! | देहिनां मोहविध्वंसा - देशना कर्म सिध्यति
3
विनैवकारणं त्राता, विना हेतुं च वत्सलः । विना निमित्तं भर्ता त्वं, हरिवंशैकमौक्तिकः
अद्याऽपराजितादेतद्-भरतक्षेत्रमुत्तमम् |
4
शर्मणे यत्र लोकस्य, बोधिदस्त्वमवातरः
नित्यं भजंतु त्वत्पादा, मानसे मम हंसताम् ।
चरितार्था भवतु च त्वगुणस्तवनेन गीः
9.
[ अध्याय-
॥ २ ॥
॥ ३ ॥
11 8 11
॥ ५ ॥ .
॥ ६ ॥
॥ ७ ॥
112 11