SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्याय-२ ] स्वार्थावबोधक्षम एव बोधः, प्रकाशते नार्थकथाऽन्यथा तु । 10 परे परेभ्यो भयतस्तथापि, प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥ माया सती चेद् द्वयतत्त्वसिद्धिरथासतीहन्त ! कुतः प्रपञ्चः ! मायैव चेदर्थसहा च तत्कि, माता च बन्ध्या च भवत्परेषाम् ? १३ 11 106 [ स्वाध्याय दोहन अनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यवश्यम् । 12 अतोऽन्यथावाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः || १४॥ 13 चिदर्थशून्या च जडा च बुद्धि:, शब्दादितन्मात्रमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति, कियज्जडैर्न प्रथितं विरोधि ।। १५ ।। न तुल्यकालः फलहेतुभावो, हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद्, विलूनशीर्णं सुगतेन्द्रजालम् ॥ १६ ॥ विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमनुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो ! सुदृष्टं त्वदसूयिदृष्टम् ॥ १७ ॥ 14 कृतप्रणाशाऽकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । 15 उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो ! महासाहसिकः परस्ते ॥ १८ ॥ सा वासना सा क्षणसन्ततिश्च नाभेदभेदाऽनुभयैर्घटेते । 16 तटस्तटाऽदर्शिशकुन्त पोतन्यायात् त्वदुक्तानि परे श्रयन्तु ॥ १९ ॥ "
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy