SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्री महादेवस्तोत्रम् ] 101 [ अध्याय-२महावीर्य महाधैर्य, महाशीलं महागुणः । महामञ्जुक्षमा यस्य, महादेवः स उच्यते ॥१३॥ स्वयम्भूतं यतो ज्ञानं, लोकालोकप्रकाशकम् । अनन्तवीर्यचारित्रं, स्वयम्भूः सोऽभिधीयते ॥१४॥ शिवो यस्माजिनः प्रोक्तः, शङ्करश्च प्रकीर्तितः । कायोत्सर्गी च पर्यती, स्त्रीशस्त्रादिविवर्जितः ॥१५॥ साकारोऽपि ह्यनाकारो, मूर्तीमूर्तस्तथैव च । परमात्मा च बाह्यात्मा, अन्तरात्मा तथैव च ॥ १६ ॥ दर्शन-ज्ञानयोगेन, परमात्माऽयमव्ययः। परा क्षान्तिरहिंसा च, परमात्मा स उच्यते ॥१७॥ परमात्मा सिद्धिसम्प्राप्तौ, बाह्यात्मा तु भवान्तरे। अन्तरात्मा भवेदेह इत्येषत्रिविधः शिवः ॥१८॥ सकलो दोषसम्पूर्णो, निष्कलो दोषवर्जितः । पञ्चदेहविनिर्मुक्तः, सम्प्राप्तः परमं पदम् ॥१९॥ एकमूर्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः । तान्येव पुनरुक्तानि, ज्ञान चारित्र-दर्शनात् ॥ २० ॥ एकमूर्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः । परस्परं विभिन्नानामेकमूर्तिः कथं भवेत् ? .. ॥ २१ ॥
SR No.022310
Book TitleSwadhyay Dohanam
Original Sutra AuthorN/A
AuthorKanakvijay Muni
PublisherVijaydansuri Granthmala
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy