SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७८ मूलाचारmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm • विकथा विश्रुतीन क्षणमपि हृदयेन ते न चिंतयति । धर्मे लब्धमतयः विकथाः त्रिविधेन वर्जयंति ॥ ९१ ॥ टीका-इत्येवमादिविकथाः स्त्रीभक्तचौरराजकथाः विश्रुतिकथाश्च सम्यग्दर्शनज्ञानचारित्रतपसां प्रतिकूलवचनानि तत्प्रतिबद्धपरिणामांश्च क्षणमपि नयनोन्मेषमात्रमपि हृदयेन चेतसा न ते मुनयश्चिन्तयति न व्यवस्थापयंति धर्मे धर्मविषये लब्धमतयो यतो विकथास्त्रिप्रकारेण मनोवाक्कायैर्वर्जयन्तीति।९१॥ तथा;कुक्कय कंदप्पाइय हास उल्लावणं च खेडं च । मददप्पहत्थवणिं ण करेंति मुणी ण कामेति ॥ ९२ ॥ कौत्कुच्यं कंदायितं हास्यं उल्लापनं च खेडं च । मददर्पहस्तताडनं न कुर्वति मुनयः न कारयति ॥ ९२ ॥ टीका-कुक्कय-कौत्कुच्यं हृदयकंठाभ्यामव्यक्तशब्दकरणं, कंदप्पाइयकंदायितं कामोत्पादकवचनान्यथवा रागोद्रेकात्प्रहाससंमिश्राशिष्टवाक्प्रयोगः कंदर्पः, हासं-हास्यमुपहास्यवचनानि, उल्लावणं-अनेकवैदग्ध्ययुक्तरम्यवचनं, खेडं चोपप्लववचनं अदुष्टहृदयेन परप्रतारणं, मददर्पण स्वहस्तेनान्यहस्तताडनं च मुनयो न कुर्वन्ति न कारयति नाऽप्यनुमन्यन्ते च ॥ ९२ ॥ यतः;ते होंति णिव्वियारा थिमिदमदी पदिद्विदा जहा उदधी। णियमेसु दृढव्वादणो पारत्तविमग्गया समणा ॥ ९३ ॥ ते भवंति निर्विकाराः स्तिमितमतयः प्रतिष्ठिता यथा उदधिः। नियमेषु दृढव्रतिनः पारव्यविमार्गकाः श्रमणाः ॥ ९३ ॥ टीका-यस्मात्ते साधवो भवंति निर्विकाराः कायिकवाचिकमानसिकविकारैवर्जिताः, स्तिमितमतयोऽनुद्वतचेष्टासंकल्पाः, प्रतिष्ठिता यथोदधिः समुद्र
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy