________________
श्रीवट्टकेरस्वामिहतो मूलाचारः।
श्रीवसुनन्दिसिद्धान्तचक्रवर्तिविरचितटीकासहितः ।
द्वादशानुप्रेक्षाधिकारः।
सिद्ध णमंसिदूण य झाणुत्तमखवियदीहसंसारे। दह दह दो दो य जिणे दह दो अणुपेहणा वुच्छं ॥१॥ सिद्धान् नमस्कृत्य च ध्यानोत्तमक्षपितदीर्घसंसारान् । ... दश दश द्वौ द्वौ च जिनान् दश द्वे अनुप्रेक्षा वक्ष्ये ॥१॥
टीका-सिद्धान् लब्धात्मस्वरूपान् । नमांसत्वा प्रणम्य । किंविशिष्टान् ? ध्यानेनोत्तमेन क्षपितो दीर्घसंसारो यैस्ते ध्यानोत्तमक्षपितदीर्घसंसारास्तान शुक्लध्यानविध्वस्तमिथ्यात्वासंयमकषाययोगान् । दश दश वीप्सावचनं चैतत् विंशतितीर्थकरान्, द्वौ द्वौ चतुरश्चतुर्विंशतितीर्थकराँश्च जिनान् प्रणम्य । दश द्वे च द्वादशानुप्रेक्षा वक्ष्य इति संबंधः । ध्यानमध्ये या द्वादशानुप्रेक्षाः सूचितास्तासां प्रपंचोऽयमिति ॥ १॥
१.ध्यानमध्ये या द्वादशानुप्रेक्षाः सूचितास्तासां प्रपंचोयमिति प्रतिज्ञावाक्येन सूचितास्तासां प्रपंचोऽयमिति, प्रेस-पुस्तके पाठः।