SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मूलाचारे . Amarrrrrrrrrrrrrrrrrrrrr टीका-एकाकिनोऽसहायाः, अविकला अविह्वला धृतिसंतोषसत्वोत्साहादिसंपन्ना वसंति संतिष्ठते गिरिकंदरासु पर्वतजलेदारितप्रदेशेषु, सत्पुरुषाः प्रधानपुरुषाः, धीराः, अदीनमनसो दैन्यवृत्तिरहिताः, रममाणा क्रीडंतो रतिं कुर्वतो वीरवचने । यत एकाकिनोऽपि वैकल्यरहिता अदीनभावा वीरवचने भेदभावने रतिं कुर्वाणा गिरिकंदरासु यतो वसंति धीराः सत्पुरुषाश्चेति ॥ २१॥ अतश्च ते धीरा;वसधिसु अप्पडिबद्धा ण ते ममत्तिं करेंति वसधीसु । सुण्णागारमसाणे वसंति ते वीरवसदीसु ॥ २२ ॥ वसतिषु अप्रतिबद्धा न ते ममत्वं कुर्वति वसतिषु । शून्यागारस्मशानेषु वसंति ते वीरवसतिषु ॥ २२ ॥ टीका-वसतिष्वप्रतिबद्धाः स मदीय आश्रयस्तत्र वयं वसाम इत्येवमभिप्रायरहिताः, ममत्वं न कुर्वति वसतिषु निवासनिमित्तमोहमुक्तास्ते साधवः, शून्यगृहेषु श्मशानेषु प्रेतवनेषु वसन्ति ते वीरवसतिषु यतो वीराधिष्ठितेषु स्थानेषु महाभयंकरेषु संस्कृतवसतिविषये मुक्तसंगा अपंसंगा वसन्त्यतस्तेन्यः केऽन्ये शूरा इति ॥ २२॥ पुनरपि सत्वव्यावर्णनायाह,पब्भारकंदरेसु अ कापुरिसभयंकरेसु सप्पुरिसा।। वसधी अभिरोचंति य सावदबहुघोरगंभीरा ॥२३॥ प्राग्भारकंदरेषु च कापुरुषभयंकरेषु सत्पुरुषेभ्यः। वसतयोऽभिरोचते श्वापदबहुघोरगंभाराः ॥ २३ ॥ टीका-प्राग्भारेषु पर्वतनितंबेषु कन्दरेषु जलहतिकृतप्रदेशेषुचैवंप्रकारेषु दुर्गप्रदेशेषु, कापुरुषभयंकरेषु सत्वहीनपुरुषभयजनकेषु वसतयोऽभिरोचन्ते १ गिरि ख-पुस्तके पाठः । २ अवसंगा स्न-पुस्तके। ३ 'पुनरपि' शब्दःप्रेस-पुस्तके मास्ति । उपन्या ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy