________________
- मूलाचारे
तिका गृहीताचेलकत्वस्वरूपा इत्यर्थः, तात्पर्येण नैन्थ्यस्वरूपप्रतिपादनमेतदिति ॥ ७॥ . .
पुनरपि तत्स्वरूपमाह;णिम्मालियसुमिणाविय धणकणयसमिद्धबंधवजणं च । पयहंति वीरपुरिसा विरत्तकामा गिहावासे ॥८॥ निर्माल्यसुमनस इव धनकनकसमृद्धबांधवजनं च । प्रजहंति वीरपुरुषाः विरक्तकामा गृहवासे ॥ ८॥
टीका-निर्माल्यसुमनस इवोपभोगितपुष्पनिचयमिव धनं गोश्वमहिष्यादिकं, कनकं सुवर्णादिकं ताभ्यां समृद्धमाढ्यं धनकनकसमृद्धं बांधवजनं स्वजनपरिजनादिकं परित्यजन्ति गृहवासविषये विरक्तचित्ताः सन्तः । यथा शरीरसंस्पृष्टं पुष्पादिकमकिंचित्करं त्यज्यते तथा धनादिसमृद्धमपि बंधुजनं धनादिक चाथवा गृहवासं चेति संबंधः परित्यज्यन्तीति ॥ ८॥
एवं नैर्ग्रन्थ्यं गृहीत्वा तद्विषयां शुद्धिमाह;-.. जम्मणमरणुविग्गा भीदा संसारवासमसुमस्स। रोचंति जिणवरमदं पावयणं वड्डमाणस्स ॥९॥ .. जन्ममरणोद्विमा भीताः संसारवासे अशुभात् ।
रोचंते जिनवरमतं प्रवचनं वर्धमानस्य ॥ ९॥ टीका-जन्ममरणेभ्यः सुष्द्विग्ना निर्विण्णा भवत्रस्तंहृदयाः संसारवासे यदशुभं दुःखं तस्माच्च भीताः सन्तः पुनर्ये रोचंते समिच्छन्ति जिनवरमतं प्रवचनं, रोचंते वा मतं मुनिभ्यो वृषभादनिां जिनवराणां, मतं वर्द्धमानभट्टारकस्य प्रवचनं द्वादशांगचतुर्दशपूर्वस्वरूपं समिच्छंतीति ॥ ९॥ - १ 'कनक' अयं शब्दः प्रेस-पुस्तके नास्ति । २ बन्धुजन ख-पुस्तके । ३ भय त्रस्तहृदया ख-पुस्तके ।