SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। २७९ संज्ञी पर्याप्तः लोकपूरणस्था, स्त्रीवेदे च संश्यसंश्यपर्याप्तपर्याप्ताश्वत्वारः नपुंसकवेदे च चतुर्दशापि क्रोधमानमायालोभेषु चतुर्दशापि मतिश्रुतावधिज्ञानेषु द्वौ संज्ञिपर्याप्तापर्याप्तौ निर्वृत्यपर्याप्तापेक्षया केवलमनःपर्यय-- विभंगज्ञानेषु संज्ञी पर्याप्त एकः सामायिकछेदोपस्थापनपरिहारशुद्धिसूक्ष्मसांपराययथाख्यातसंयमेषु संयमासंयमे च संज्ञी पर्याप्त एक एव असंयमे च चतुर्दशापि; चक्षुर्दर्शने चतुरिंद्रियसंश्यसंज्ञिपर्याप्तापर्याप्ताः षट् अपप्तिकालेऽपि चतुर्दश क्षयोपशमस्य सद्भावादुपयोगः पुनस्त्येिव अचक्षु-- दर्शने चतुर्दशाप्यवधिदर्शने द्वौ संज्ञिपर्याप्तापर्याप्तौ केवलदर्शने संज्ञी पर्याप्त एक एव, कृष्णनीलकापोतलेश्यासु चतुर्दशापि तेजः पद्मशुक्ललेश्यासु द्वौ संक्षिपर्याप्तौ, भव्यसिद्धेषु चतुर्दशापि, क्षायोपशमिकक्षायिकसासादनसम्यक्त्वकेषु उपशमश्रेण्यपेक्षया औपशामिकसम्येक्त्वेचद्वौ संज्ञिपर्यातापर्याप्ता सम्यङ्गिथ्यात्वे प्रथमसम्यक्त्वे च पर्याप्तः संज्ञी एक एव मिथ्यात्वे चतुर्दशापि, संज्ञिषु संज्ञिपर्याप्तापर्याप्तौ दौ, आहारिषु चतुर्दशापि अनाहारिषु सप्तापर्याप्ताः अष्टमः संज्ञी पर्याप्तः केवली । सर्वत्र जीवसमासा. इति संबंधः ॥ १५८॥ मार्गणास्थानेषु जीवसमासान् प्रतिपाद्य गुणस्थानानि प्रतिपादयन्नाहमुरणारयेसु चत्वारि होति तिरियेसु जाण पंचेव । मणुसगदीएवि तहा चोद्दसगुणणामधेयाणि ॥ १५९ ॥ सुरनारकेषु चत्वारि भवंति तिर्यक्षु जानीहि पंचैव। .. मनुष्यगतावपि तथा चतुर्दश गुणनामधेयानि ॥ १५९ ॥ टीका-सुरेषु नारकेषु च मिथ्यादृष्ट्याद्यसंयतपर्यंतानि चत्वारि गुणस्थानानि भवंति, तिर्यक्षु तान्येव कथितानि संयतासंयतश्च पंच भवंति, मनुष्यगतौ पुनः चतुर्दशापि मिथ्यादृष्ट्याययोगपर्यंतानि गुणस्थानानि भवंति, इत्येवं सर्वासु मार्गणासु योज्यं । तद्यथा-एकेंद्रियद्वीन्द्रियत्रींद्रिय
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy