SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मूलाचारे य--सप्तविंशतिश्च योजनानां सर्वत्र संबंधः, होंति-भवति, बोधवाबोद्धव्यानि । जंबूद्वीपस्य परिधेः, प्रमाणं योजनानां त्रीणि लक्षाणि घोडशसहस्राणि, योजनानां द्वे च शते योजनानां सप्तविंशतिश्च । अथवा भेदेन निर्देशो जंबूद्वीपपरिधिः योजनानां त्रीणि लक्षाणि षोडशसहस्राणि द्वे शते संप्तविंशतिश्चेति । तथा तिण्णेव-त्रीण्येव, गाउआई-गव्यूतानि क्रोशाः, अट्ठावीसं च-अष्टाविंशतिश्च, धणु-धनुषां, सदं-शतं, भणियं--भणितं, तेरस य-त्रयोदशानि च, अंगुलाई-अंगुलानि च, अद्धंगुलमेव--अर्धांगुलमेव च, सविसेसं--सविशेषो यवः सातिरेकः किंचिदेव तेन विशेषेण सह वर्त्तत इति सविशेषमागुलेन संबंधः । त्रीणि. गव्यूतानि धनुषां शतमष्टाविंशत्यधिकं त्रयोदशानि चांगुलानि सविशेषमर्दोगुलं चेति ॥ ३१॥३२ ॥ जंबूद्वीपमादिं कृत्वा कियतां द्वीपानां नामान्याह;जंबूदीवो धादइसंडो पुक्खरवरो य तह दीवो। वारुणिवर खीरवरो य घिदवरो खोदवरदीवो ॥ ३३ ॥ गंदीसरो य अरुणो अरुणभासो य कुंडलवरी य । संखवर रुजग भुजगवर कुसवर कुंचवरदीवो ॥ ३४ ॥ जंबूद्वीपो धातकीखंडः पुष्करवरश्चं तथा द्वीपः । वारुणीवरः क्षीरवरश्च घृतवरः क्षौद्रवरद्वीपः ॥ ३३ ॥ नंदीश्वरश्चारुणोऽरुणभासश्च कुंडलवरश्च । शंखवरो रुचको भुजगवरो कुशवरो क्रौंचवरद्वीपः ॥ ३४ ॥ टीका-जंबूदीवो-जंबूद्वीपः प्रथमो द्वीपः, धादइसंडो-धातकीखंडो द्वितीयो द्वीपः, पुक्खरवरो-पुष्करवरस्तृतीयो द्वीपः, तह-तथा, दीवो द्वीपः, वारुणिवर-वारुणीवरश्चतुर्थों द्वीपः, खीरवरो-क्षीरवरः पंचमो
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy