SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रक्षाधिकारः। . धर्माधर्माकाशानि गतिरागतिः जीवपुद्गलानां च। .. यावत्तावल्लोकः आकाशमतः परमनंतम् ॥ २३॥ टीका-धर्माधर्मी लोकाकाशं च यावन्मात्रे जीवपुद्गलानां च गतिरागतिश्च यावन्मानं तावल्लोकोऽतः परमित ऊर्ध्वमाकाशं पंचद्रव्याभावोऽनंतमप्रमाणं केवलज्ञानगम्यमिति ॥ २३॥ पुनरपि कस्य संस्थानमित्याह;हेट्टा मज्झे उवरि वेत्तासणझल्लरीमुदंगणिभो। मज्झिमवित्थारेण दुचोदसगुणमायदो लोओ ॥ २४ ॥ अधो मध्ये उपरि वेत्रासनझल्लरीमृदंगनिभः । मध्यमविस्तारेण तु चतुर्दशगुण आयतो लोकः ॥ २४ ॥ टीका-अधःप्रदेशे मध्यप्रदेशे उपरिप्रदेशे च यथासंख्येन वेत्रासनझल्लरीमृदंगनिभः, अधो वेत्रासनाकृतिमध्ये झल्लाकृतिरूवं मृदङ्गाकृतिरिति, मध्यमविस्तारप्रमाणेन चतुर्दशगुणः, मध्यमविस्तारस्य प्रमाणमेका रज्जुः सा च चतुर्दशभिर्गुणिता लोकस्यायामो भवति, वातवलयादधस्तादारभ्य यावन्मोक्षस्थानं तयोमध्य आयाम इत्युच्यते । स आयामश्चतुर्दशरज्जुमात्र इति । घनाकारेण यदि पुनर्मीयते तदा त्रिचत्वारिंशदधिकत्रिशतरज्जुमात्रो भवतीति ॥२४॥ ___ तत्र लोके जीवाः किं कुर्वन्तीत्याह;तत्थणुहवंति जीवा सकम्मणिव्वत्तियं सुहं दुक्खं । जम्मणमरणपुणब्भवमणंतभवसायरे भीमे ॥ २५ ॥ तत्रानुभवंति जीवाः स्वकर्मनिवर्तितं सुखं दुःखं । जन्ममरणपुनर्भवं अनंतभवसागरे भीमे ॥ २५ ॥ १ 'जीवपुद्गलानां च जीवपुद्गलानां च ' इति द्विरुक्तं प्रेस-पुस्तके। .
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy