________________
शीलगुणाधिकारः।
उच्चारणारूपाणि दृष्टानि अक्षा नष्टास्तत उच्चारणारूपद्वारेणाक्षान साधयन्नाह;सगमाणेहिं विहत्ते सेसं लक्खित्तु संखिवे रूवं । लक्खिज्जतं सुद्धे एवं सव्वत्थ कायव्वं ॥ २४ ॥ . स्वकमानैः विभक्त शेष लक्षयित्वा संक्षिपेत् रूपं । लक्षणमंते शुद्ध एवं सर्वत्र कर्तव्यं ॥ २४ ॥
टीका—सगमाणेहिं—स्वकीयप्रमाणैर्योगादिभिर्यत्राक्षे निरूप्यते तानि स्वकप्रमाणानि तैः विहते--विभक्ते विभागे हृते सति, सेसं-शेष लक्खित्तु-लक्षयित्वा, संखिवे-संक्षिपेद्रूपं क्व भागे हृते यल्लब्धं तस्मिभन्यस्याश्रुतत्वाच्छेषमात्रे चाक्षः स्थितः शेषे पुनः शुद्धे शून्ये, लक्खिज्जतंलक्षणं अक्षः, अन्तं अन्ते व्यवस्थितमिति, तु शब्देन सर्वत्रेष्टसमुच्चयः, एवं सर्वत्र शीलेषु च कर्तव्यमिति, यान्युच्चारणरूपाणि लब्धानि तेषु स्वकप्रमाणस्त्रिभिर्भागे हृते यल्लब्धं तावन्मानं भ्रमित्वाऽक्षः यावंति शेषरूपाणि तावन्मात्रेऽक्षः स्थितः यदि पुनर्न किंचिच्छेषरूपं शून्यं तदान्तेऽक्षो द्रष्टव्य इति एवं करणैः संज्ञाभिरिन्द्रियैर्भूम्यादिभिश्च लब्धे लब्धे भागो हार्य इति द्विसहस्रे अशीत्यधिके संस्थाप्य त्रिभिर्योगैर्हते त्रिनवत्यधिकानि षट्शतानि लब्धानि भवंति, एकं च शेषरूपं तत्र लब्धमात्रं भ्रमित्वाऽक्ष आदौ व्यवस्थितस्ततो लब्धे रूपं प्रक्षिप्य भागे हृते करणैर्दै शते एकत्रिंशत्यधिक संजाते रूपं च शेषभूतं तत्रैकत्रिंशदुत्तरे द्वे शते भ्रमित्वा अक्ष आदौ व्यवस्थितस्ततः संज्ञाभिश्चतसृभिः रूपाधिके लब्धे भागे हृते अष्टापंचाशलधा न किंचिच्छेषभूतं तत्राष्टापंचाशद्वारान् भ्रमित्वाऽक्षोऽन्ते व्यवस्थितस्ततो लब्धे पंचभिरिन्द्रियैर्भागे हृते एकादश रूपाणि लब्धानि शेषभूतानि च त्रीणी रूपाणि तत्रैकादशवारान् भ्रमित्वाऽक्षस्तृतीयरूपे व्यवस्थितस्ततो