SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ शीलगुणाधिकारः। १६३ wronomwww व्युत्सर्गः कायोत्सर्गादिकरणं । तव-तपः अनशनावमौदर्यादिलक्षणं । छेदो-छेदः दिवसमासादिना प्रव्रज्याहापनं । मूलं-पुनर्दीक्षाप्रापणं । पि य-अपि च । परिहारो चेव–परिहारश्चैव पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः । सद्दहणा-श्रद्धानं सावद्यगतस्य मनसः मिथ्यादुष्कृताभिव्यक्तिनिवर्त्तनं, एते दश विकल्पा विपरीतदोषा भवंति । एतैः पूर्वोक्तानि अष्टलक्षाभ्याधिकचत्वारिंशत्सहस्राणि गुणितानि चतुरशीतिलक्षसावधविकल्पा भवंति तद्विपरीतास्तावंत एव गुणा भवंतीति ॥ १६ ॥ - गुणोत्पादनक्रममाह;पाणादिवादविरदे अदिकमणदोसकरणउम्मुक्त। पुढवीए पुढवींपुणरारंभसुसंजदे धीरे ॥ १७ ॥ इत्थीसंसग्गविजुदे आकंपियदोसकरणउम्मुक्के । आलोयणसोधिजुदे आदिगुणो सेसया णेया ॥ १८॥ प्राणातिपातविरतस्य अतिक्रमणदोषकरणोन्मुक्तस्य। .. पृथिव्या पृथिवीपुनरारंभसुसंयतस्य धीरस्य ॥ १७ ॥ .. स्त्रीसंसर्गवियुतस्य आकंपितदोषकरणोन्मुक्तस्य । आलोचनशुद्धियुतस्य आदिगुणः शेषा ज्ञेयाः ॥ १८ ॥ टीका-पाणादिवादविरदे-प्राणातिपातो हिंसा तस्मात्प्राणातिपाताद्विरत उपरतस्तस्य तस्मिन्वा प्राणातिपातविरतस्य प्राणातिपातविरते वा। अदिकमणदोसकरणउम्मुक्के-अतिक्रमणमेव दोषस्तस्य करणं अतिक्रमणदोषकरणं तेनोन्मुक्तः परित्यक्तस्तस्य तस्मिन्वाऽतिक्रमणदोषकरणोन्मुक्तस्यातिकमणदोषकरणोन्मुक्ते वा । पुढवीए पुढवी पुण आरंभसुसंजदे धीरे-पृथिव्याः पृथिवीकायिकैः पृथिव्याः पृथिवीकायिकानां पुनरारंभो विराधनं तस्मिन् सुसंयतो यत्नपरस्तस्य तस्मिन्वा पृथिव्या पृथिवीपुनरारंभसुसंयतस्य पृथिवीकायिकैः
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy